भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 202, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 202

१६४ गोपथब्राह्मणे पूर्वभागे प्र० ३ । क० १५ ॥ कण्डिका १५ ॥ प्रियमेधा ह वै भरद्वाजा यज्ञविदो मन्यमाना॑स्ते ह स्म न कञ्चन¹ वेदविद- मुपयन्ति, ते सर्वमविदुस्ते सहैवाविदुस्तेऽग्निहोत्रमेव न समवादयन्त तेषा- मेकः सकृदग्निहोत्रमजुह त् द्विरेकस्त्रिरेकस्तेषां यः सकृदग्निहोत्रमजुहोत्तमित- रावपृच्छतां कस्मै त्वं जुहोषीति एकधा वा, इदं सर्वं प्रजापतिः प्रजापतय एवाहं सायं जुहोमीति प्रजापतये प्रातरिति । तेषां यो द्विरजुहोत् तमितरावपृच्छतां काभ्यां त्वं जुहोषीति, अग्नये प्रजापतय इति सायं, सूर्य्याय प्रजापतय इति प्रातः । तेषां यस्त्रिरजुहोत्तमितरावपृच्छतां केभ्यस्त्वं जुहोषीत्यग्नये प्रजापतयेऽनुमतय इति सायं, सूर्य्याय प्रजापतये अग्नये स्विष्टकृत इति प्रातः । तेषां यो द्विरजुहोत्स आध्नोत्स भूयिष्ठोऽभवत्प्रजया चेतरौ श्रिया चेतरावत्याक्रामत्तस्य ह प्रजामि- तरयोः प्रजे ²सजातस्त्वमुपेयातां तस्माद् द्विर्होतव्यं, यजुषा चैव मनसा च यामेव ऋद्धिमाध्नोति तामृध्नोति य एव वेद, यश्चैवं विद्वानग्निहोत्रं जुहोतीति ब्राह्मणम् ॥ १५ ॥ कण्डिका १५ ॥ क्रियात्मक और मानसिक यज्ञ करना चाहिए ॥ ( प्रियमेधाः ह वै भरद्वाजाः यज्ञविदः मन्यमानाः ) भरद्वाज गोत्र वाले बुद्धि को प्रिय रखने वाले [ अपने को ] यज्ञवित् समझते हुये। ( ते ह स्म कञ्चन वेदविदं न उपयन्ति ) वे किसी वेदज्ञाता के पास नहीं जाते थे। ( ते सर्वम् अविदुः ते सह एव अविदुः ) [ वे मानते थे ] वे सब जानते हैं, वे मिलकर ही जानते थे । ( ते अग्नि- होत्रम् एव न समवादयन्त ) वे अग्निहोत्र का ही अब संवाद करने लगे । ( तेषाम् एकः सकृत् अग्निहोत्रम् अजुहो त् द्विः एकः त्रिः एकः ) उनमें एक एक बार [ एक देवता के लिये ] अग्निहोत्र करता था, दो बार [ दो देवता के लिये ] एक और तीन बार [ तीन देवता के लिये ] एक । ( तेषां यः सकृत् .अग्निहोत्रम् अजुहोत् तम् इतरौ अपृच्छताम् कस्मै त्वम् एकधा वै जुहोषि इति ) उनमें जो एक बार अग्निहोत्र करता था, उससे अन्य दोनों ने पूंछा—तू किस देवता के लिये एक प्रकार ही यज्ञ करता है। ( इद सर्वं प्रजापतिः प्रजाप्तये एव अहं सायं जुहोमि इति, प्रजापतये प्रात इति ) [ वह बोला ] यह सब प्रजापति है, प्रजापति के लिये ही मैं सायंकाल होम करता हूँ, और प्रजापति के लिये प्रातःकाल । ( तेषां यः द्विः अजुहोत् तम् इतरौ अपृच्छताम्, काभ्यां त्वं जुहोषि १५–( प्रियमेधाः ) प्रिया मेधा धारणावती बुद्धिर्येषां ते ऋषयः ( भर- द्वाजाः ) भरद्वाजवंशीयाः ( यज्ञविदः ) यज्ञवेत्तारः ( मन्यमानाः ) जानन्तः ( कञ्चन ) कमपि ( उपयन्ति ) समीपे गच्छन्ति ( अविदुः ) अजानन् (न) सम्प्रति— निरु० ७ । ३१ ( समवादयन्त ) परस्परम् अकथयन्त ( सकृत् ) एकवारम् । १. पू. सं. 'कञ्चना' इति पाठः ॥ २. अत्रत्यः पाठोऽतीवभ्रष्टः, अस्माभिः संशोधितः ॥ सम्पा०॥

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य) · पृष्ठ 202, कुल 600 में से · BharatKosha