भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 229, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 229

गोपथब्राह्मणे पूर्वभागे प्र० ४ । क० ६ १९१ कण्डिका ९ ॥ अहोरात्राभ्यां वै देवाः प्रायणीयमन्तरात्रं निरमिमत १, अर्द्धमासेभ्यश्चतुर्विंश- महः २, ब्रह्मणोऽभिप्लवं ३, क्षत्रात् पृष्ठ्यम् ४, अग्नेरभिजितम् ५, अद्द्भ्यः स्वर- सामानः ६, सूर्याद्विषुवन्तम् ७ उक्ता आवृत्ताः स्वरसामानः । इन्द्राद्विश्वजितम् ८, उक्तौ पृष्ठ्याभिप्लवौ मित्रावरुणाभ्यां गवायूषी¹ ६, विश्वेभ्यो देवेभ्यः दशरात्रं १०, दिग्भ्यो दशरात्रिकं पृष्ठ्यं षडहम् ११, एभ्यो लोकेभ्यः छन्दोमत् त्र्यहं १२, संवत्सरात् दशममहः १३, प्रजा¹पतेर्महाव्रतं १४, स्वर्गाल्लोकादुदयनीयमतिरात्रं १५, तद्वा एतत् संवत्सरस्य जन्म, स य एवमेतत् संवत्सरस्य जन्म वेद संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणम् ॥ ६ ॥ कण्डिका ९ ॥ प्रायणीय अतिरात्रादि पन्द्रह प्रकार के यज्ञ और संवत्सर ॥ (अहोरात्राभ्यां वै देवाः प्रायणीयम् अतिरात्रं निरमिमत) दिन और रात से ही विद्वानों ने प्रायणीय [पाने योग्य] अतिरात्र [रात्रि में पूरा होने वाले यज्ञ] को बनाया । १ । (अर्धमासेभ्यः चतुर्विंशम् अहः) आधे महीनों से चतुर्विंशमहः [चौबीस अवयव वाले दिन अर्थात् यज्ञ] को । २ । (ब्रह्मणः अभिप्लवम्) ब्रह्मा से अभिप्लव [उछल जाना, यज्ञ] को । ३ । (क्षत्रात् पृष्ठ्यम्) क्षत्रिय से पृष्ठ्य [सेचन यज्ञ] को । ४ । (अग्नेः अभिजितम्) अग्नि [पराक्रम] से अभिजित् [विजय यज्ञ] को । ५ । (अद्भ्यः स्वरसामानः) जल से स्वरसामों [स्वर सहित साम वाले यज्ञों] को । ६ । (सूर्यात् विषुवन्तम्) सूर्य से विषुवत् [तुल्य रात्रि दिन के काल, अर्थात् ग्रीष्म विषुवत् और हेमन्त विषुवत् वाले यज्ञ] को । ७ । (आवृत्ताः स्वरसामानः उक्ताः) बार बार आने वाले स्वरसाम यज्ञ कहे गये । (इन्द्रात् विश्वजितम्) इन्द्र [ऐश्वर्य्य- वान्] से विश्वजित् [दिग्विजय यज्ञ] को । ८ । (पृष्ठ्याभिप्लवौ उक्तौ) पृष्ठ्य और अभिप्लव यज्ञ कहे गये । (मित्रावरुणाभ्यां गवायूषी) मित्र और वरुण [प्राण और अपान] से गवायूषी [गौ विद्या वा पृथिवी और आयु अर्थात् जीवन दो यज्ञों] को । ६ । (विश्वेभ्यो देवेभ्यः दाशरात्रम्) विश्वे देवाओं [सब दिव्य गुणों] से दशरात्र [दशरात्रि यज्ञ] को । १० । (दिग्भ्यः दशरात्रिकं पृष्ठ्यं षडहम्) दिशाओं से दशरात्रिक पृष्ठ्य षडह को । ११ । (एभ्यो लोकेभ्यः छन्दोमत् त्र्यहम्) इन लोकों से छन्दोमत् त्र्यह [छन्दयुक्त तीन दिन वाले यज्ञ] को । १२ । (संवत्सरात् दशम् अहः) संवत्सर [वर्ष] से दशम अहः [दसवें दिन वाले यज्ञ] को । १३ । (प्रजापतेः महाव्रतम्) प्रजापति [पुरुष] से महाव्रत [उत्तम नियम] को । १४ । (स्वर्गात् लोकात् उदयनीयम् ९—(अतिरात्रम्) अतिक्रान्तो रात्रिम्, अच् समासान्तः । यज्ञविशेषम् (क्षत्रात्) क्षत्रियात् (पृष्ठ्यम्) तिथपृष्ठगूथ० (उ० २ । १२) पृषु सेचने— थक् । पृष्ठादुपसङ्ख्यानम् (वा० पा० ४ । २ । ४२) पृष्ठ—यन् । सेचनम् । (स्वरसामानः) आर्षी प्रथमा द्वितीयार्थे । स्वरसाम्नः । स्वरसहितसामवतो यज्ञान् (विषुवन्तम्) तुल्यरात्रिदिनकालवन्तं यज्ञम् (आवृत्ताः) अभ्यस्ताः (मित्रावरुणाभ्याम्) प्राणापानाभ्याम् (गवायूषी) गौश्च आयुश्च । यज्ञविशेषम् १. यहाँ देखें १६० पृ० की टिप्पणी ॥ सम्पा० ॥