भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 333, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 333

गोपथब्राह्मणे उत्तरभागे प्र० १ । क० २३ ॥ २६५ पुष्टिकमं वै गृहमेधीयः, सायम्पोषः पशूनां, तस्माद् सायं गृहमेधीयेन चरन्ति । अथ यच्छ्वोभूते गृहमेधीयस्य निष्कासमिथ्रेण पूर्णद१र्व्या चरन्ति, पूर्वेद्युः कर्मणै- वैतत् प्रातः कर्मोपसन्तन्वन्ति । अथ यत् प्रातर्मरुतः क्रीडिनो य१जन्ति, इन्द्रो वै मरुतः क्रीडिनः, तस्मादेनानिन्द्रेणोपसंहितान् यजति । अथ यदग्निं प्रणयन्ति, यमेवामुं वैश्वदेवे मन्थन्ति, तमेव तत् प्रणयन्ति, यन्मथ्यते तस्योक्तं ब्राह्मणम् । अथ यत् सप्तदश सामिधेन्यः सङ्गन्तावाज्यभागौ, विराजो संयाज्ये, तेषामुक्तं ब्राह्मणम् । अथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि समानानि त्वेव षट् सञ्च- राणि हवींषि भवन्त्यैन्द्राग्नान्तानि, तेषामुक्तं ब्राह्मणम् । अथ यन्महेन्द्रमन्ततो यजति, अन्तं वै श्रेष्ठो भजते, तस्मादेनमन्ततो यजति अथ यद्वैश्वकर्मण एककपालः, असौ वै विश्वकर्मा, योऽसौ तपत्येतमेव तेन प्रीणाति अथ यद्वृषभङ्गां ददाति, ऐन्द्रो ह यज्ञक्रतुः ॥ २३ ॥ कण्डिका २३ ॥ इन्द्र, अग्नि और मरुत् देवताओं के लिए हवि ॥ (ऐन्द्रः वै एषः यज्ञक्रतुः, यत् साकमेधाः) इन्द्र [ऐश्वर्यं] देवता वाला ही यह यज्ञ व्यवहार है, जो साकमेध [ बल के लिए बुद्धि वाले यज्ञ ] हैं । ( तत् यथा महाराजः पुरस्तात् सेनानीकानि व्यूह्य अभयं पन्थानं अन्वियात्, एवम् एव एतत् पुरस्तात् देवताः यजन्ते ) सो जिस प्रकार महाराजा पहिले से सेना के विभागों को व्यूह में करके निर्भय मार्ग चला जाता है, ऐसे ही इस [ इन्द्र ] को पहिले देवता पूजते हैं । ( तत् यथा एव सोमस्य अदः महाव्रतम्, एवम् एव एतत् इष्टिमहाव्रतम् ) सो जिस प्रकार ही सोम [ यज्ञ ] का वह महाव्रत है, वैसे ही यह इष्टि महाव्रत है । ( अथ यत् अनीकवन्तम् अग्निं देवतानां प्रथमं यजति, अग्निः वै देवानां मुखं, मुखतः एव तत् देवान् प्रीणाति ) फिर जो सेना [ शिखा धूम आदि ] वाले अग्नि को देवताओं में पहिले वह पूजता है, अग्नि ही देवताओं का मुख [ प्रधान ] है, मुख से ही उस [ यज्ञ ] से देवताओं को तृप्त करता है। ( अथ यत् माध्यन्दिने सान्तपनान् मरुतः यजति, इन्द्रः वै सान्तपनाः मरुतः, ऐन्द्रं माध्यन्दिनं, तस्मात् एनान् इन्द्रेण उपसंहितान् यजति) फिर जब मध्याह्न में भली भांति तपाने वाले मरुत् [ पवन वा किरण ] देवताओं को वह यज्ञ करता है, इन्द्र [ सूर्य ] ही भलीभांति तपाने वाले मरुत् हैं, इन्द्र देवता वाला माध्यन्दिन [ दोपहर का सवन ] है, इसलिये इन [ मरुतों ] को इन्द्र के साथ-साथ यज्ञ करता है। ( अथ यत् सायं गृहमेधीयेन चरन्ति, पुष्टिकर्म वै गृहमेधीयः, सायं पशूनां पोषः, २३ - (साकमेधाः) शक्ल शक्तौ-घञ्+मेधृ मेधायाम्-घञ् । शस्य सः । शाकाय शक्तये मेधा येषु ते यज्ञाः (सेनानीकानि ) अनिहृषिभ्यां किच्च ( उ० ४ । १७) अन जीवने-ईकन् कित् । सेनाविभागान् (व्यूह्य ) सैन्यसंनिवेशेन स्थाप- यित्वा (अनीकवन्तम्) सेनावत् शिखाधूमादियुक्तम् ( सान्तपनान् ) सम्+तप तापे ऐश्वर्य्ये च-णिच्-ल्युट् । सन्तापकारकान् ( उपसंहितान् ) उप+सम्+ १. पू. सं० 'पूर्णा दर्व्या' 'यजति' इति पाठः ॥ सम्पा० ।

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य) · पृष्ठ 333, कुल 600 में से · BharatKosha