गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 337, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० १ । क० २५ ॥ २९९ वे [ पितर लोग यज्ञ में ] छह ही सम्पन्न किये जाते हैं, छह ही ऋतुयें हैं, ऋतुओं [ के समान वृद्धिकारक ] पितर हैं, पितरों की तृप्ति के लिये [ यह यज्ञ है ] ॥ २४ ॥ भावार्थः--यज्ञ में पितर लोगों का यथावत् सत्कार करने से यजमान की महिमा बढ़ती है ॥ २४ ॥ कण्डिका २५ ॥ अथ यज्जीवनवन्तावाज्यभागौ भवतः, यजमानमेव तज्जीवयतः । अथ यदेकैकस्य हविषस्तिस्रस्तिस्रो याज्या भवन्ति, ह्वयत्येवैनां प्रथमया, द्वितीयया गम- यति, प्रैव तृतीयया यच्छति । अथो देवयज्ञमेवैनं पितृयज्ञेन व्यावर्तयन्ति, अथो दक्षिणासंस्थो वै पितृयज्ञः, तमेवैतदुदक्संस्थं कुर्वन्ति । अथ यदग्निं कव्यवाहन- मन्ततो यजति, एतत् स्विष्टकृतो वै पितरः, तस्मादग्निं कव्यवाहनमन्ततो यजति । अथ यदिडामुपहूयावघ्राय न. प्राश्नन्ति, पशवो वा इडा, नेत्पशून् प्रमृण- जानीति । अथ यत् सूक्तवाके यजमानस्याशिषोऽन्वाह, नेद्यजमानं प्रमृणजानीति । अथ यत् पत्नीः संयाजयन्ति, नेत्पत्नीं प्रमृणजानीति । अथ यत् पवित्रवति मार्ज- यन्ते, शान्तिर्वै भेषजमापः, शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियते । अथ यदध्वर्युः पितृभ्यो निपृणाति, जीवावेव तत् पितॄननु मनुष्याः पितरोऽनुप्रवहन्ति । अथो देवयज्ञमेवैनं पितृयज्ञेन व्यावर्तयन्ति । अथो दक्षिणासंस्थो वै पितृयज्ञः तमेवै- तदुदक्संस्थं कुर्वन्ति । अथ यत् प्राञ्चोऽभ्युत्क्रम्यादित्यमुपतिष्ठन्ते देवलोको वा आदित्यः, पितृलोकः पितरः देवलोकमेवैनं पितृलोकादुपसङ्क्रामयन्तीति । अथ यद्दक्षिणाञ्चोऽभ्युत्क्रम्याग्नीनुपतिष्ठन्ते, प्रीत्यैव तद्देवेष्वन्ततोऽध्वं चरन्ति । अथ यदुदञ्चोऽभ्युत्क्रम्य त्रैयम्बकैर्यजन्ते, रुद्रमेव तत् स्वस्यां दिशि प्रीणन्ति । अथो देवयज्ञमेवैनं पितृयज्ञेन व्यावर्तयन्ति । अथो दक्षिणासंस्थो वै पितृयज्ञः, तमेवैतदुदक्संस्थं कुर्वन्ति । अथ यदन्तत आदित्येष्टचा यजति इयं वा अदिति- रस्यामेवैनमन्ततः प्रतिष्ठापयति । अथ यत्परस्तात् पौर्णमासेन यजते, तथाहास्य पूर्वपक्षे साकमेधैरिष्टं भवति ॥ २५ ॥ कण्डिका २५ ॥ पितृयज्ञ के साथ देवयज्ञ आदि का विधान ॥ ( अथ यत् जीवनवन्तौ आज्यभागौ भवतः, यजमानम् एव तत् जीवयतः ) फिर जब दो जीवन साधन वाले आज्यभाग [ घृत की आहुति वाले मन्त्र ] होते हैं, यजमान को ही वे दोनों जीवन देते हैं । ( अथ यत् एकैकस्य हविषः तिस्रः तिस्रः याज्याः भवन्ति, एनान् एव प्रथमया ह्वयति, द्वितीयया गमयति, तृतीयया एव प्रयच्छति ) फिर जब एक एक हवि की तीन तीन याज्या [ ऋचायें ] होती हैं, पहिली से ही इन [ पितरों ] को वह बुलाता है, दूसरी से वह चलाता है और तीसरी से ही वह २५–( जीवनवन्तौ ) जीवनसाधनयुक्तौ ( हविषः ) ग्राह्यपदार्थस्य । अन्नस्य ( ह्वयति ) आह्वयति ( एनान् ) पितॄन् ( गमयति ) प्रापयति ( प्रयच्छति )