भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 439, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 439

गोपथब्राह्मणे उत्तरभागे प्र० ३ । क० २० ४०१ प्रजात्या इति । नेत्यब्रवीत्साम, ज्यायान् वा अतो मम महिमेति । ते द्वे भूत्वो- पावदताम् । ते न प्रतिवचनं समवदत् । तास्तिस्रो भूत्वोपावदन् । यत् तिस्रो भूत्वोपावदन्, तत् तिसृभिः समभवत् । यत् तिसृभिः समभवत्, तस्मात्तिसृभिः स्तुवन्ति, तिसृभिरुद्गायन्ति, तिसृभिर्हि साम सम्मितं भवति । तस्मादेकस्य बह्व्यो जाया भवन्ति, न ह्येकस्या बहवः सह पतयः । यद्वै तत्सा चामश्च समवदताम्, तत् सामाभवत् । तत् साम्नः सामत्वम् । सामन् भवति श्रेष्ठतां गच्छति । यो वै भवति, स सामन् भवति । असा१मन्य इति ह निन्दन्ते । ते वै पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेताम्, आहावश्च हिङ्कारश्च प्रस्तावश्च प्रथमा चोद्गीथश्च मध्यमा च प्रतिहारश्चोत्तमा च निधनञ्च वषट्कारश्च । ते यत् पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतां, तस्मादाहुः, पाङ्क्तो यज्ञः पाङ्क्ताः पशव इति । यदु विराजं दशनीमभिसम्पद्ये२तां तस्मादाहुर्विराजो यज्ञो दशम्यां प्रति- ष्ठित इति । यदु बृहत्याः प्रतिपद्यते, बार्हतो वा एषः य एषस्तपति, तदेनं स्वेन रूपेण समर्धयति द्वे तिस्रः करोति । पुनरादाय प्रजात्यै रूपं, द्वाविवाग्रे भवतः । तत उपजायते ॥ २० ॥ कण्डिका २० ॥ आख्यायिका के रूप में ऋक् और साम के सम्बन्ध का वर्णन ॥ ( अथ अतः एकाहस्य एव माध्यन्दिनम् ) अब यहां एकाह यज्ञ का माध्यन्दिन [ सवन, कहा जाता है ] । ( इदम् अग्रे ऋक् च वै साम वा आस्ताम् ) इससे पहिले ऋक् [ स्तुति योग्य प्रकृति ] और साम [ मोक्षदाता ब्रह्म ] यह दोनों थे । ( सा एव नाम ऋक् आसीत्, अमः नाम साम ) सा [ साम शब्द का पहिला अक्षर सा का अर्थ लक्ष्मी है ] नाम वाली ही ऋक् थी और अमः [ साम शब्द का दूसरा अक्षर, अमः का अर्थ ज्ञान है ] नाम वाला साम था । ( सा वै ऋक् साम उपावदत्, मिथुनं प्रजात्यै सम्भवाव इति ) सा [ नाम वाली ] ऋक् पास आकर साम से बोली—हम दोनों जोड़ा होकर सन्तान के लिये समर्थ होवें । ( न इति, साम अब्रवीत्, मम महिमा अतः वै ज्यायान् इति ) नहीं, साम बोला, मेरी महिमा इस [ तेरी महिमा ] से बहुत अधिक है । ( ते द्वे भूत्वा उपावदताम् ) [ ऋक् दो हो गईं ] वे [ कारण और कार्य रूप प्रकृति ] दोनों होकर पास आकर [ साम से उसी प्रकार ] बोलीं । ( ते प्रतिवचनं न समवदत् ) २०—( ऋक् ) स्तुत्या वाणी । प्रकृतिः ( सा ) षो अन्तकर्मणि—डः टाप् । लक्ष्मीः । प्रकृतिः ( अमः ) अम गतौ भोजने च—असुन् । ज्ञानम् ( सोम ) मोक्षस्वरूपं ब्रह्म ( मिथुनम् ) यथा भवति तथा । मिथुनेन संयोगेन ( संभवाव ) समर्थौ भवताम् ( प्रजात्यै ) प्रजननाय ( ज्यायान् ) वृद्ध—ईयसुन् । वृद्धतरः ( अतः ) अस्मात् । ऋङ्महिम्नः सकाशात् ( उपावदताम् ) उपेत्य उक्तवत्यौ ( ते ) तयोः ( प्रतिवचनम् ) प्रत्युत्तरम् ( समवदत् ) समवादमङ्गीकारं कृतवान् १. पू. सं. 'असामान्य' इति पाठः ॥ २. पू. सं. सम्पद्येयाताम् इति पाठः ॥ सम्पा० ॥ २६