गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 47, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे पूर्वभागे प्र० १ । कं० ५ ॥ ९ ॥ कण्डिका ५ ॥ तमथर्वाणमृषिमभ्यश्राम्यदभ्यतपत्, समतपत्तस्माच्छ्रान्तात्तप्तात् सन्तप्तात् दशतयानथर्वण ऋषीन्निरमिमतैकचाँन् द्व्यचाँस्तुचाँश्चतुर्ऋंचान् पञ्चर्चाम् षडर्चांन् सप्तर्चानष्टर्चाम्नवचाँन्दशर्चानिति । तानथर्वण ऋषीनभ्यश्राम्यदभ्यतपत् समतपत्, तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः सन्तप्तेभ्यो दशतयानाथर्वणानार्षेयान्निरमिम- तैकादशान् द्वादशांस्त्रयोदशांश्चतुर्दशान् पञ्चदशान् षोडशान् सप्तदशानष्टा- दशान्नवदशान् विंशानिति । तानथर्वण ऋषीनाथर्वणांश्चार्षेयानभ्यश्राम्यदभ्य- तपत् समतपत् तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः सन्तप्तेभ्यो यान् मन्त्रानपश्यत् स आथ- र्वणो वेदोऽभवत् तमाथर्वणं वेदमभ्यश्राम्यदभ्यतपत्समतपत्तस्माच्छ्रान्तात् तप्तात् सन्तप्तादोमिति मन एवोर्ध्वमक्षरमुदक्रामत्, स य इच्छेत्सर्वैरेतैरथर्वनि- श्चाथर्वणैश्च कुर्वीयेत्येतयैव तं महाव्याहृत्या कुर्वीत । सर्वैर्ह वा अस्यैतैरथर्व- भिश्चाथर्वणैश्च कृतं भवति य एवं वेद यश्चैवं विद्वानेवमेतया महाव्याहृत्या कुरुते ॥ ५ ॥ कण्डिका ५ ॥ दस अथर्वा ऋषि, दस आथर्वण, वेद और ओम् ॥ (तम् अथर्वाणम् ऋषिम्) उस अथर्वा ऋषि [अर्थात् अपने] को (अभि अश्राम्यत्) उस [ब्रह्म] ने सब ओर से दबाया, (अभि अतपत्) सब ओर से तपाया, (सम् अतपत्) भली भांति तपाया। (तस्मात् श्रान्तात् तप्तात् सन्तप्तात्) उस दबाये हुए, तपाये हुए भली भांति तपाये हुए [अथर्वा] से (दशतयान् अथर्वणः ऋषीन्) दस प्रकार वाले अथर्वा (निश्चल) ऋषियों [दर्शनीय वेदज्ञानों] को (निर् अमिमत्) उसने बनाया, [अर्थात्] (एक-ऋचान्) एक [ओम् परमात्मा] की स्तुति योग्य विद्या वाले [वेद ज्ञानों] को, (द्वि--ऋचान्) दो [स्थावर और जङ्गम संसार] की स्तुति योग्य विद्या वाले [ज्ञानों] को, (तृचान्) तीन [भूत, भविष्यत्, वर्तमान] की स्तुति योग्य विद्या वाले [ज्ञानों] को, (चतुर्--ऋचान्) चार [धर्म, अर्थ, काम, मोक्ष,] की स्तुति योग्य विद्या वाले [ज्ञानों] को, (पंच-ऋचान्) पांच [पृथिवी, जल, तेज, वायु, आकाश, पांच तत्त्वों] की स्तुति योग्य विद्या वाले [ज्ञानों] को, (षट्-ऋचान्) छह [वसन्त, ग्रीष्म, वर्षा, शरद्, हेमन्त, शिशिर, ऋतुओं] की स्तुति योग्य विद्या वाले [ज्ञानों] को, (सप्त-ऋचान्) सात [दो कान, दो नयने, दो आँखें, एक मुख अथर्व १०।२।६] की स्तुति योग्य विद्या वाले [ज्ञानों] को, (अष्ट-ऋचान्) आठ [यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, समाधि, ५--अथर्वाणम् - गो० पू० १ । ४ निश्चलम् । ऋषिम्-गो० पू० १ । ४ । सन्मार्गदर्शकं स्वात्मानम् (दशतयान्) संख्याया अवयवे तयप् (पा० ५।२।४२) दशन्-तयप् दशप्रकारान् (ऋषीन्) दर्शनीयान् वेदमन्त्रान् (निर् अमिमत) माङ् माने-लङ् आर्षं बहुवचनम् । अमिमीत । निर्मितवान् (एकऋचान्) ऋच स्तुतौ-क्विप् । ऋग्वाङ्नाम-निघ० १ । ११ । ऋक्पूरब्धूःपथामानक्षे (पा० ५।४। ७४) एक+ऋच्-अप्रत्ययः समासान्तः । एकस्य ओम् इत्यस्य परमात्मनः ऋक्