गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 548, कुल 600 में से
संदर्भ में पढ़ें५१० गोपथब्राह्मणे उत्तरभागे प्र० ६ । क० ७ में विष्णु को नियुक्त किया । ( ते अब्रुवन्, एकैकाः स्मः इदं न उत्सहामहे इति, स्तु [ अस्तु ] नः द्वितीयः येन सह इदं व्यश्नवामहै इति ) वे [ तीनों ] बोले--हम एक एक हैं, इस काम में हम उत्साह नहीं कर सकते, इसलिए हमारा कोई दूसरा [ सहायक ] हो । जिसके साथ इस काम को हम प्राप्त कर लें । ( तान् इन्द्रः अब्रवीत्, सर्व्वे मद्- द्वितीयाः स्थ इति ) उनसे इन्द्र बोला--तुम सब मुझे दूसरा [ सहायक ] रखने वाले हो । ( ते सर्वे इन्द्र ( = इन्द्रेण ) द्वितीयाः, तस्मात् ऐन्द्रावारुणम्, ऐन्द्राबार्हस्पत्यम्, ऐन्द्रावैष्णवम् अनुशस्यते ) वे सब इन्द्र के साथ सहाय वाले हैं, इसलिए इन्द्र-वरुण वाला, इन्द्र बृहस्पति वाला और इन्द्र-विष्णु वाला सूक्त निरन्तर बोला जाता है । ( द्वितीयवन्तः ह वै एतेन स्वाः भवन्ति, द्वितीयवन्तः [ = द्वितीयवान् ] मन्यते, यः एवं वेद ) इस [ विधान ] से ही दूसरे [ सहायक ] वाले अपने लोग होते हैं, दूसरे [ सहायक ] वाला वह माना जाता है जो ऐसा विद्वान् है ॥ ६ ॥ भावार्थः-मनुष्य को चाहिये कि संसार में सङ्घटन करके कार्य सिद्धि करे ॥ ६ ॥ विशेषः-इस कण्डिका के लिए देखो ऐ० ब्रा० ६ । १३ तथा १४ ॥ कण्डिका ७ ॥ आग्नेयीषु मैत्रावरुणस्योक्थं प्रणयन्ति, वीर्यं वा अग्निः, वीर्येणैवास्मै तत् प्रणयन्ति । ऐन्द्रावारुणमनुशस्यते, वीर्यं वा इन्द्रः, क्षत्रं वरुणः, पशव उक्थानि, वीर्येणैव तत् क्षत्रेण चोभयतः पशून् परिगृह्णाति स्थित्या अनपक्रान्त्यै । ऐन्द्रीषु ब्राह्मणाच्छंसिन उक्थं प्रणयन्ति, वीर्यं वा इन्द्रः वीर्येणैवास्मै तत् प्रणयन्ति । ऐन्द्राबार्हस्पत्यमनुशस्यते, वीर्यं वा इन्द्रः, ब्रह्म बृहस्पतिः पशव उक्थानि, वीर्येणैव तद्ब्रह्मणा चोभयतः पशून् परिगृह्णाति स्थित्या अनपक्रान्त्यै । ऐन्द्री- ष्वाच्छावाकस्योक्थं प्रणयन्ति, वीर्यं वा इन्द्रः, वीर्येणैवास्मै तत् प्रणयन्ति । ऐन्द्रावैष्णवमनुशस्यते, वीर्यं वा इन्द्रः, यज्ञो विष्णुः, पशव उक्थानि, वीर्येणैव तद्यज्ञेन चोभयतः पशून् परिगृह्य क्षत्रेऽन्ततः प्रतिष्ठापयति । तस्मादु क्षत्रियो भूयिष्ठं हि पशूनामीश्ते योऽधिष्ठाता प्रदाता, यस्मै प्रत्ता वेदा अवरुद्धाः तान्ये- तान्यैन्द्राणि । जागतानि शंसन्ति, अथो एतैरेव सेन्द्रं तृतीयसवनमेनैर्जागतं सवनं, घ्राणि ह वा अस्यैतान्युक्थानि भवन्ति, यन्नाभानेदिष्ठो बालखिल्यो वृषाकपि- रेवायामरुत्, तस्मात् तानि सार्द्धमेवोपैयुः, सार्द्धमिदं रेतः सिक्तं समृद्धं, एकधा प्रजनयामेति ये हु वा एतानि नानूपेयुः, यथा रेतः सिक्तं विलुम्पेत कुमारं वा जातमङ्गशो विभजेत् तादृक् तत् । तस्मात्तानि सार्द्धमेवोपैयुः । सार्धमिदं रेतः सिक्तं समृद्धमेकधा प्रजनयामेति । शिल्पानि शंसति, यदेव शिल्पानि, एतेषां वै शिल्पानामनुकृतिर्हि शिल्पंमधिगम्यते, हस्ती कंसो वासो हिरण्यमश्वतरी रथ- शिल्पं, शिल्पं हास्य समधिगम्यते, य एवं वेद, यदेव शिल्पानि शंसति तत् स्वर्गस्य रूपसिद्धिः । अहं द्वितीयः सहायको येषां ते ( इन्द्रम् ) इन्द्रेण । वीर्येण-क० ७ ( अनु ) निरन्तरम् ( मन्यते ) ज्ञायते ॥