गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 556, कुल 600 में से
संदर्भ में पढ़ें५१८ गोपथब्राह्मणे उत्तरभागे प्र० ६ । क० ९ ॥ मिति । स होवाच, छन्दस्त्विदमु माध्यन्दिनं, सातिजागतं वातिजागतं वा स उ मारुतो मैवं संसृष्टेति [ शंसिष्टेति ] । स होवाच, अरमच्छावाकेत्यथा- स्मिन्ननुशासनमीषे । स होवाच, इन्द्रमेष विष्णू न्व्यङ्गानि शंसति, अथ त्वं होतु- रुपरिष्टाद्रौद्रिया धाय्या, या पुरस्तान्मारुतस्य सूक्तस्याप्यस्यधा इति । तथेति । तदप्येतर्हि तथैव शस्यते, यथा षष्ठे पृष्ठ्याहनि । कल्पत एव यज्ञः, कल्पते यज- मानस्य प्रजापतिः, कथमत्राशस्त एव नाभानेदिष्ठो भवति । अथ बालखिल्याः शंसति, रेतो वा अग्रेऽथ प्राणाः एवं ब्राह्मणाच्छंस्यशस्त एव नाभानेदिष्ठो भवति । अथ वृषाकपिं शंसति, रेतो वा अग्रेऽथात्मा, कथमत्र यजमानस्य प्रजापतिः, कथं प्राणा अवरुद्धा भवन्तीति । यजमानं वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति, स यथा गर्भो योन्यामन्तरेव१ सम्भवच्छेते, न ह वै सकृदेवाग्रे सर्वं सम्भवति, एकैकं वाऽङ्गं सम्भवति । सर्वाणि चेत्समानेऽहनि क्रियेरन्, कल्पत एव यज्ञः, कल्पते यजमानस्य प्रजापतिः । अथ हैव एवयामरुतं होता शंसेत्, तस्यास्य प्रतिष्ठा, तस्या एवैनमन्ततः प्रतिष्ठापयति प्रतिष्ठापयति ॥ ६ ॥ कण्डिका ९ ॥ नाभानेदिष्ठ, बालखिल्य, वृषाकपि और एवयामरुत् सहचरणों का वर्णन तथा बुडिल और गोश्रल के प्रश्नोत्तर ॥ -.. (तानि वै एतानि सहचरणानि इति आचक्षते, यत् नाभानेदिष्ठः, बालखिल्यः, वृषाकपिः एवयामरुत्, तानि सह वा शंसेत्, सह वा न शंसेत् ) वे ही यह सहचरण [एक दिन में बोले गये सूक्त] हैं, ऐसा वे [ ब्रह्मवादी ] कहते हैं, जो नाभानेदिष्ठ, बालखिल्य, वृषाकपि और एवयामरुत् [ क० ७] हैं, उनको अथवा वह एक साथ ही बोले, अथवा एक साथ न बोले । ( यत् एषाम् अन्तरीयात्, तत् यजमानस्य अन्तरीयात् ) जो इनमें से कुछ वह छोड़ दे, उससे यजमान का नाश करे । ( यदि नाभानेदिष्ठम्, अस्य रेतः अन्तरीयात् ) यदि नाभानेदिष्ठ को [ छोड़े ], इस के वीर्य को वह नष्ट करे, ( यदि बालखिल्याः, अस्य प्राणान् अन्तरीयात् ) यदि बालखिल्यों को [ वह छोड़े ! ] इस के प्राणों को वह नष्ट करे । ( यदि वृषाकपिम्, अस्य आत्मानम् अन्तरीयात् ) यदि वृषाकपि को [ वह छोड़े ] वह इस के आत्मा को नष्ट करे । ( यत् एवयामरुतम्, प्रतिष्ठा वै एवयामरुत्, दैव्याः च मानुष्याः च प्रतिष्ठायाः एव एनं तं श्रावयेत् ) यदि एवयामरुत् को वह छोड़े प्रतिष्ठा ही एवयामरुत् है, दैवी [ दिव्य गुण वाली ] और मानुषी [ मननशीलों वाली ] प्रतिष्ठा से ही इस [ यजमान ] को वह निकाल देवे । ( तानि सह वा शंसेत्, सह वा न शंसेत् ) उनको अथवा वह एक साथ ही बोले, अथवा एक साथ न बोले ॥ ६-(सहचरणानि) एकस्मिन् दिने सह शंसनीयानि शिल्पसूक्तानि (अन्तरीयात्) विच्छेदो भेदो भवेत् । विनाशयेत् (श्रावयेत्) श्रु गतौ । गमयेत् । च्यावयेत् (दैव्याः) देवसंबन्धिन्याः (मानुष्याः) मनुष्यसम्बन्धि- १. योन्यामन्तरेव इत्यस्यानन्तरं जर्मनसंस्करणे “प्राणानस्यान्तरियाद्यदि वृषाकपि- मात्मानमस्यान्तरियाद्यद्येव वा” इत्यधिकः पाठः ॥ सम्पा० ॥