भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 571, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 571

गोपथब्राह्मणे उत्तरभागे प्र० ६ । क० १३ ५३३ प्रवह्लिकाभिर्हं वै देवा असुराणां रसान् प्रववृहुः । तद्यथाभिहं वै देवा असुराणां रसान् प्रववृहुः, तस्मात् प्रवह्लिकाः, तत् प्रवह्लिकानां प्रवह्लिकात्वम् । ता वै प्रतिराधैः प्रत्यराध्नुवन् । तद्यत् प्रतिराधैः प्रत्यराध्नुवन्, तस्मात् प्रतिराघाः, तत् प्रतिराघानां प्रतिराघत्वम् । प्रवह्लिकाभिरेव द्विषतां भ्रातृव्याणां रसान् प्रवह्लिकास्ता वै प्रतिराधैः प्रतिराध्नुवन्ति, ताः प्रग्राहमित्येव । अथाजिज्ञासेन्याः शंसति, इहेत्थ प्रागपागुदगधरा- गिति । आजिज्ञासेन्याभिर्हं वै देवा असुरानाज्ञाय अथैनानन्वयायन्, तथैवैतद्यजमाना आजिज्ञासेन्याभिरेवाप्रियं भ्रातृव्यमागायाथैनमतियन्ति । ता अर्द्धर्चशः शंसति, प्रतिष्ठित्या एव । अथातिवादं शंसति, वी३मे देवा अक्रंसतेति । श्रीर्वा अतिवादस्त- मेकच्चँ शंसति, एकस्ता वै श्रीस्तां वै विरेभं शंसति, विरेभैः श्रियं पुरुषो वहतीति । तामर्द्धर्चशः शंसति, प्रतिष्ठित्या एव ॥ १३ ॥ कण्डिका १३ ॥ कुन्ताप सूक्तों में ऐतशप्रलाप, प्रवह्लिका, प्रतिराध, आजिज्ञासेन्या, और अतिवाद मन्त्रों का प्रयोग ॥ ( अथ ऐतशप्रलोपं शंसति, एता अश्वा आप्लवन्ते, इति ) अब ऐतशप्रलाप [ऐतश ज्ञानवान् ऋषि का आलाप] वह [ ऋत्विज् ] बोलता है—एता अश्वा आप्लवन्ते......अथर्व० २० । १२६ । १–२०, यह सूक्त है । ( ऐतशः ह मुनिः यज्ञस्य आयुः ददर्श ) ऐतश [ ज्ञानवान् ] मुनि ने [ इस सूक्त में ] यज्ञ के आयु [ जीवन काल ] को देखा । ( सः ह पुत्रान् उवाच, पुत्रकाः यज्ञस्य आयुः अभिददृक्षम् तत् अभिलपिष्यामि, मा मा तृप्तं मन्यध्वम् इति ) वह पुत्रों से बोला—हे प्यारे पुत्रो ! यज्ञ के जीवन काल को मैंने देखा है; उसको मैं आलापूंगा, मुझको तुम मत तृप्त मानों [ मत रोको ] । ( तथा इति ) [ वे बोले ] ऐसा ही हो । ( तत् अभिललाप ) उसने उसे आलापा । ( तस्य ह इति अग्निः ऐतशायनः ज्येष्ठः पुत्रः अभिदुद्रुत्य मुखम् अपि जग्राह, ब्रुवन् नः पिता तृप्तः इति ) अग्नि नामक ऐतश गोत्र में उत्पन्न उसके जेठे पुत्र ने निरादर करके मुंह पकड़ लिया यह बोलते हुये—हमारा पिता बस करे । ( सः ह उवाच, धिक् त्वा जाल्मापरस्य ते प्रजां पापिष्ठां करिष्यामि इति ) वह बोला—तुझे धिक्कार है, तुझ क्रूर व्यवहार वाले की प्रजा १३—( ऐतशप्रलापम् ) इणस्तशनुतशसुनो ( उ० ३ । १४६ ) इण् गतौ—तशन्, एतश—अण् ऐतशम् । ऐतश॑स्य ब्राह्मणस्य सम्बन्धिनं प्रलापम् आलापम् ( अश्वाः )-अशूङ् व्याप्तौ—क्वन्, टाप् । व्यापिकाः प्रजाः ( आ ) आगत्य ( प्लवन्ते ) गच्छन्ति ( आयुः ) एतेणिच्च ( उ० २ । ११८ ) इण् गतौ—उसिः णित् । जीवनम् । जीवनज्ञानम् ( पुत्रकाः ) हे प्रियपुत्राः ( अभिददृक्षम् ) दृष्टवानस्मि ( अभिलपिष्यामि ) अभितः कथयिष्यामि ( ऐतशायनः ) अश्वादिभ्यः फञ् ( पा० ४ । १ । ११० ) एतशं ऐतश वा—फञ् बाहुलकात् । ऐतशस्य गोत्रोत्पन्नः ( अभिदुद्रुत्य ) अनादृत्य ( ब्रुवन् ) १. ऐतरेय ब्राह्मण के अनुसार ऐतश मुनि के पुत्र ने ऐतश को मनोविकृत बताया है जो कि इसके अग्रिम प्रलाप से स्पष्ट है ॥ सम्पा० ॥