हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 167, कुल 185 में से
संदर्भ में पढ़ें१३ ] रतिपालविज्ञप्तिः ११९ उदेति काले कस्मिंश्चित्प्रतीच्यामपि भास्करः । भज्यमानं परं दुर्गं न तिष्ठेदिति मे मतिः ॥ ९९ ॥ तदस्मिन्निहते जाते दुर्गभंगे च दैवतः । लोकानिति प्रजल्पाकान्निरोद्धुं कतमः क्षमः ॥ १०० ॥ ध्रुवं सपरिवारोपि दुर्मतिर्विभुरेष नः । यदेवमविमृश्यैव रतिपालं प्रजघ्निवान् ॥ १०१ ॥ जीवत्यत्र दुर्गेस्मिन् विलसंतीति किं शकाः । पारीन्द्रे सति किं तस्य गुहायां कोपि दीव्यति ॥ १०२ ॥ हनूमदयनं यद्व दभविष्यज्जितेऽमुना । हतेत्र भविता तद्व द्रतिपालायनं क्षितौ ॥ १०३ ॥ विरम्यतां तदेतस्मा द्भाव्यमस्ति यदस्तु तत् । रावणादिभिरप्युच्चै र्न भाव्यं रुरुधे यतः ॥ १०४ ॥ उक्तेति विरते राज्ञि प्रससार पुरांतरे । वार्ता नृपं शकाधीशो यत्पुत्रीमेव याचते ॥ १०५ ॥ इतश्च राजपत्नीभि रनुशास्य प्रणोदिता । पुत्री देवलदेवीति नत्वा भूपं व्यजिज्ञपत् ॥ १०६ ॥ हाहा तात मदर्थं किं राज्यं विप्लावयस्यदः । किं कीलिकार्थं प्रासादं प्रपातयति कश्चन ॥ १०७ ॥ प्रभूता अपि पुत्राः किं कुर्युः पूर्वे तमौगजाः । परार्थमेव वर्धेत या क्षुद्रश्रीरिवान्वहं ॥ १०८ ॥ मत्प्रदानेन साम्राज्यं चिरं यत्क्रियते स्थिरं । तत्काचखंडदानेन रक्षा चिंतामणेर्न किं ॥ १०९ ॥ परासोर्येत्र कुत्रापि जीवंति तनुजा वरं । दृष्टाहि पुनरावृत्तिर्जीवतां न गतायुषां ॥ ११० ॥ नीतिः स्वहितमालोच्य व्ययं कुर्याद्विचक्षणः । तत्तात् मयि दत्तायां किं किं भावि न ते हितं ॥ १११ ॥