कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 323, कुल 353 में से
संदर्भ में पढ़ें३१६ सटीक कामसूत्रे [ ६ अधिकरणे,
केषां तर्हि ? उपादानमित्याह—
अनर्थो वर्जने येषां गमनेऽभ्युदयस्तथा ।
प्रयत्नेनापि तान्गत्वा सापदेशमुपक्रमेत् ॥ ३५ ॥
अनर्थ इति । यांस्त्यक्त्वाऽन्यस्मादनर्थोऽभिगमने चाभ्युदयस्तानूभयप्रयोजनत्वात्, प्रयत्नेनापि तान्गत्वेति । अभिगम्य, सापदेशमुपक्रमेदिति । यत्किंचिन्निमित्तीकृत्यानभिगच्छन्तमप्यभिगच्छेदित्यर्थः, वृत्ताद्यभावादात्मनेपदं न भवति ॥ ३५ ॥
येष्वर्थ एव प्रयोजनं तानाह—
प्रसन्ना ये प्रयच्छन्ति स्वल्पेऽप्यगणितं वसु ।
स्थूललक्षान्महोत्साहांस्तान्गच्छेत्स्वैरपि व्ययैः ॥ ३६ ॥
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे
लाभविशेषाः पञ्चमोऽध्यायः ।
प्रसेति । स्थूललक्ष्याः = महेच्छाः, महोत्साहा महानुत्साहो येषां, महत्त्वं चोत्साहस्य शौर्यादिभिः, ते तुष्टाः स्वल्पेऽपि वेश्याविषये प्रभूतंद्रव्यं प्रयच्छन्ति तस्मात्तान्गच्छेत् स्वैरपि व्ययैरुपचारलक्षणैः ॥ ३६ ॥
इति लाभविशेषाः सप्तपञ्चाशत्तमं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणे लाभविशेषाः पञ्चमोऽध्यायः ।
षष्ठोऽध्यायः ।
शास्त्रकार एव प्रकरणसंबन्धमाह—
अर्थानाचर्यमाणाननर्था अप्यनूद्भवन्त्यनुबन्धाः संशयाश्च ॥ १ ॥
अर्थेति । अर्थानिति लाभविशेषाननन्तरोक्तान्, आचर्यमाणान्साध्यमानान्, अपरिग्रहाया वेश्याया इत्यर्थः, अनर्था इति । अर्थविरुद्धाः, अनूद्भवन्तीति, 'अनुलक्षणे' इत्यनोः कर्मप्रवचनीयत्वेऽर्थानिति द्वितीया, अर्थान्साध्यमानाँल्लक्ष्यीकृत्यानर्था अपि स्वहेतुभ्य उत्पद्यन्ते, तत्र यदाऽर्था एवोत्पद्यन्ते तदा निरनुबन्धोऽर्थपक्षः, यदाऽर्थं बाधित्वाऽनर्थास्तदा निरनुबन्धोऽनर्थपक्षः, अनुबन्धा इति । अर्थानर्थयोः संशयाश्चोभयोरेव गृह्यन्ते, तस्मात्तेषु हानोपादानार्थं तद्विचारो युक्तः, इत्यर्थानर्थानुबन्धसंशयविचारा उच्यन्ते ॥ १ ॥