कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 322, कुल 353 में से
संदर्भ में पढ़ें५ अध्याये ] लाभविशेषप्रकरणम् । ३१५
त्यक्ष्याम्येनमन्यतः प्रतिसन्धास्यामि, गमिष्यति दारैर्योक्ष्यते, नाशयिष्यत्यनर्थान्, अङ्कुशभूत उत्तराध्यक्षोऽस्यागमिष्यति स्वामी पिता वा, स्थानभ्रंशो वाऽस्य भविष्यति, चलचित्तश्चेति मन्यमाना तदात्वे तस्माल्लाभमिच्छेत् ॥ ३२ ॥
त्यक्ष्याम्येनं तदात्वे ततो लाभं गृहीत्वाऽन्यतः प्रतिसन्धास्यामि तस्याधिकत्वाद्, गमिष्यति दारैर्योक्ष्यते, गतः कृतदारपरिग्रहो वा कथं दास्यति तस्य परवशप्रायत्वाद्, नाशयिष्यत्यर्थानर्थात्स्वकीयान्, अस्येति । गम्यस्य कर्मणि स्वामी पिता वाऽङ्कुशभूत इति दमयिता, उत्तराध्यक्षः = उपरिकर्त्ता, आगमिष्यति तदाऽयमस्वतन्त्रः कथं दास्यतीति, स्थानभ्रंशो वेति । यस्मिन्स्थानेऽस्याधिपत्यं तस्माद्धिच्युतिः, चलचित्तो वा प्रतिज्ञायापि न दास्यति, तदात्व इति । तदानीम् ॥ ३२ ॥
प्रतिज्ञातमीश्वरेण प्रतिग्रहं लप्स्यते, अधिकरणं स्थानं वा प्राप्स्यति, वृत्तिकालोऽस्य वाऽऽसन्नः, वाहनमस्यागमिष्यति, सस्यमस्य पक्ष्यते, कृतमस्मिन्न नश्यति, नित्यमविसंवादको वेत्या- यत्यामिच्छेत् परिग्रहत्वं चास्याचरेत् ॥ ३३ ॥
प्रतिग्रहं लप्स्यत इति । स ह्यक्लेशेनोपलब्धार्थो दास्यति, अधिकरणमक्षपटलादिकं स्थानं यत्राधिपत्यं करिष्यति, वृत्तिकालो वेति । सेवकत्वाज्जीवनकालोऽस्यासन्ना राजकुले ग्रामविलग्नस्य वर्तमानत्वाद्, वाहनं यानपात्रमागमिष्यति वाणिज्यधर्मं स्थितत्वात्, स्वराष्ट्रादिसस्यमस्य पक्ष्यत इति, कृषिवृत्तित्वात्, ततश्च पक्वं सस्यं दास्यति, कृतमस्मिन् न नश्यति, अभिगमनं न निष्फलं, कृतज्ञत्वाद्, नित्यमविसंवादको वा, प्रतिज्ञायावश्यं दास्यति, आयत्यामिति । अनागतकाले, परिग्रहत्वं चास्याचरेत् तत्रार्थस्य लिप्स्यमानत्वात् ॥ ३३ ॥
भवन्ति चात्र श्लोकाः—
कृच्छ्राधिगतवित्तांश्च राजवल्लभनिष्ठुरान् । आयत्यां च तदात्वे च दूरादेव विवर्जयेत् ॥ ३४ ॥
कृच्छ्राधिगतवित्तांश्चेति । कृशेनाजितधनान्, राजवल्लभनिष्ठुरानिति । ये राज्ञ इष्टा निष्ठुराः क्रूरा येषां नाकरणीयमस्ति, आयत्याञ्च तदात्वे चासत्यपि लोभप्रतिग्रहङ्गेकारणे दूरादेव विवर्जयेद्, न तद्दर्शनं सम्भाषणं च कुर्यादित्यर्थः, प्रायशस्तेभ्योऽनर्थसंभवात् ॥ ३४ ॥