कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 321, कुल 353 में से
संदर्भ में पढ़ें३१४ सटीक कामसूत्रे [ ६ अधिकरणे,
देशकालविभवसामर्थ्यानुरागलोकप्रवृत्तिवशादनियतलाभादियमवृत्तिरिति वात्स्यायनः ॥ २९ ॥
देशेति । देशस्य सुसंपन्नस्यासंपन्नस्य वा, कालस्य सुभिक्षस्य दुर्भिक्षस्य वा, विभवस्यात्मीयस्य महतोऽल्पस्य वा, सामर्थ्यस्याविपन्नशक्तेर्महत्या इतरस्या वा, गम्यानुरागस्य महतोऽल्पस्य वा, लोकप्रवृत्तेर्व्यवस्थायाः, वशादनियतो लाभस्तासां, ततश्च नेयं वृत्तिरियताऽप्रधानाऽर्थद्वारेण या निर्दिष्टा, कदा चित्ततो न्यूनाऽधिका वा सम्भवति ॥ २९ ॥
एवं च कार्यनिरपेक्षया कश्चित्स्वल्पोऽपि लाभो गृह्यते कश्चिन्नैव कश्चित्तदात्वे गृह्यते कश्चिदायत्यां यदाह—
गम्यमन्यतो निवारयितुकामा, सक्तमन्यस्यामपहर्तुकामा वा, अन्यां वा लाभतो वियुयुक्षमाणा, गम्यसंसर्गादात्मनः स्थानं वृद्धिमायतिमभिगम्यतां च मन्यमाना, अनर्थप्रतीकारे वा साहाय्यमेनं कारयितुकामा, सक्तस्य चाऽन्यस्य व्यलीकार्थिनी पूर्वोपकारमकृतमिव पश्यन्ती, केवलप्रीत्यर्थिनी वा, कल्याणबुद्धिः, अल्पमपि लाभं प्रतिगृह्णीयात् ॥ ३० ॥
गम्यमिति । अन्यत इति । अन्यस्या नायिकातो निवारयितुकामा माऽन्यत्र यासीदिति, अपहर्तुकामा मद्वेषिण्यां सक्तं त्यक्ष्यामीति, लाभत इति । गम्यसम्बन्धिनो लाभाद्, वियुयुक्षमाणा वियोक्तुमिच्छन्ती, गम्यसंसर्गादिति । येन गम्येन सह संसर्गस्तस्मात् स्थानं जनसंसदि विशिष्टदेशावस्थानं मन्यमाना वृद्धिं प्रकृष्टाख्यां लाभातिशयमायतिं प्रभावमभिगम्यतामन्येषां नायकानामभिगमनीयत्वम्, अनर्थप्रतीकारे वेति । अनर्थं प्रतिकर्तुं सहायमेनं कर्तुकामा, सक्तस्य वेति । यस्तस्यां सक्तोऽन्यत्र वर्तमानस्तेन यः पूर्वमुपकारः कृतस्तं स्वल्पत्वादकृतमिव पश्यन्ती, तस्यातीतस्य व्यलीकार्थिनी, अपराधं कर्तुकामाऽल्पमपि गृह्णीयाद् येनायमपराध्धमनयेति सक्तस्त्यजति, केवलप्रीत्यर्थिनी वेति । प्रीत्यैव केवलमर्थिनी नार्थैः, कल्याणबुद्धिरिति । अविसंवादिका ॥ ३० ॥
यदाऽऽयतिमनर्थप्रतीकारे चेत्युभयमुक्तम्, अत्र विशेषमाह—
आयत्यर्थिनी तु तमाश्रिताऽनर्थं प्रतिचिकीर्षन्ती नैव प्रतिगृह्णीयात् ॥ ३१ ॥
आयेति । यदाऽऽयतिर्महती स्यादनर्थश्च न महान्प्रातकर्तव्यस्तदा नैव प्रतिगृह्णीयात् ॥ ३१ ॥