कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 327, कुल 353 में से
संदर्भ में पढ़ें३२० सटीककामसूत्रे [ ६ अधिकरणे,
गमनं निष्फलं, तदनुरञ्जनमध्यन्ते निष्फलं, सोऽनर्थ इति । यः कृतो व्ययो- निरनुबन्धोऽर्थानर्थाभ्यां निरनुबन्धत्वात् ॥ १६ ॥
कदर्यादेर्विशेषमाह —
तस्यैव राजवल्लभस्य क्रौर्यप्रभावाधिकस्य तथैवाराधनमन्ते निष्फलं निष्कासनं च दोषकरं सोऽनर्थोऽनर्थानुबन्धः ॥ १७ ॥
तस्यैवेति । क्रौर्यप्रभावाधिकस्येति । दोषत्रयमत्राधिकं, तथैवा- राधनमिति । यथा स्वैर्धैर्यैरभिगमनं निष्फलं कदर्यादीनामदातृत्वाद्, निष्कासनमददतां दोषकरं, ते हि निष्कासिता दोषत्रययुक्तत्वात्पारुष्य- शरीरप्रघातादीननर्थान्कुर्युरित्यनर्थोऽनर्थानुबन्धः, अयं सजातीयानु- बन्धः ॥ १७ ॥
एवं धर्मकामयोरप्यनुबन्धान्योजयेत् ॥ १८ ॥
एवमिति । एवमन्यानपि धर्मकामयोरनुबन्धान्योजयेत्, तत्र ब्राह्म- णस्य गृहस्थस्यानुरक्तस्य मुमूर्षोर्गमनात्प्राणसंरक्षणं कुटुम्बसंधारणं गार्हस्थ्यधर्मप्रवर्तनं च धर्मो धर्मानुबन्धः, काममात्रं धर्मो निरनुबन्धः, तस्यैवाकृतस्नानभोजनस्य ब्राह्मणस्यातिव्यवायाद् धातुक्षये मुमूर्षु- त्वाद् धर्मोऽधर्मानुबन्धः, अभिप्रेतस्य धनवतो भोगिनोऽभिगमने कामः कामानुबन्धः, रागापनयनमात्रेऽभिप्रेतस्य गमनं कामो निरनुबन्धः, अभिप्रेतस्य हरिद्रारागस्य गमनं कामो द्वेषानुबन्ध इति, अत्र निरनुबन्धाः- षड्, विजातीयविरुद्धाभ्यामनुबन्धा द्वादश ॥ १८ ॥
परस्परेण च युक्त्या सङ्किरेदित्यनुबन्धाः ॥ १९ ॥
परस्परेण च युक्त्येति । विरुद्धं त्यक्त्वा शेषाणां विजातीयानाम- न्योन्ययोगादित्यर्थः, तत्रार्थो धर्माधर्मकामद्वेषैः प्रत्येकमनुबद्धश्चतुर्विधः, तथाऽनर्थोऽपि, धर्मोऽर्थानर्थकामद्वेषः प्रत्येकमनुबद्धश्चतुर्विधः, तथाऽ- धर्मोऽपि, कामोऽर्थानर्थधर्माधर्मैः प्रत्येकमनुबद्धश्चतुर्विधः, तथा द्वेषोऽपि, इति चतुर्विंशतिः संकीर्णानुबन्धाः ॥ १६ ॥
शुद्धसंशयमधिकृत्याह—
परितोषितोऽपि दास्यति न वेत्यर्थसंशयः ॥ २० ॥
परीति । यदि तदात्वे न ददाति सुरतोपचारेण परितोषितोऽपि दास्यति, तत्राज्ञातदानशीलत्वाद्यान्न वेत्यर्थसंशयः ॥ २० ॥
निष्पीडितार्थमफलमुत्सृजन्त्या अर्थमलभमानाया धर्मः स्यान्न वेति धर्मसंशयः ॥ २१ ॥