भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 326, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 326

६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३१९

सोऽर्थ इति । योऽसौ तदात्वे लाभः, अर्थानुबन्ध इति । ग्रहणीयत्वादि- भिरथैरनुबन्धो यस्य, अयं सजातीयानुबन्धः ॥ १२ ॥

लाभमात्रे कस्य चिदन्यस्य गमनं सोऽर्थो निरनुबन्धः ॥१३॥

लाभमात्र इति । तदात्वे यो लाभस्तन्मात्रमेव निमित्तं कस्य चिदिति । लोके यो गुणैर्दोषैर्वा न विवक्षितस्तस्याभिगमनमात्रोऽर्थो- निरनुबन्धो, ग्रहणीयत्वाद्यभावात् ॥ १३ ॥

अन्यार्थपरिग्रहे सक्तादायतिच्छेदनमर्थस्य निष्क्रमणं लोकवि- द्विष्टस्य वा नीचस्य गमनमायतिघ्नमर्थोऽनर्थानुबन्धः ॥ १४ ॥

सक्तादिति । यः सक्तो निःसारत्वादन्यदीयमुपहत्य प्रयच्छति तस्मादन्यार्थस्य परिग्रहे, आयतिच्छेदनं प्रभावहानिर्दस्युना सह तिष्ठ- तीति, अर्थस्येति । पूर्वोपात्तस्य निष्क्रमणं चात्र द्रव्यस्य नागरकेण गृह्य- माणत्वाद्, लोकविद्विष्टस्य च चौर्यमकुर्वतोऽपि, नीचस्य वा जातिन्यून- स्य, गमनमायतिघ्नमिति । प्रभावं हन्ति, अत्रार्थोऽनर्थानुबन्धः, तदा- ऽर्थलाभस्यायतिच्छेदाद्यनर्थानुबन्धित्वादु अयं विरुद्धानुबन्धः ॥ १४ ॥

स्वेन व्ययेन शूरस्य महामात्रस्य प्रभावतो वा लुब्धस्य गमनं- निष्फलमपि व्यसनप्रतीकारार्थं महतश्चार्थघ्नस्य निमित्तस्य प्रशम- नमायतिजननं च सोऽनर्थोऽर्थानुबन्धः ॥ १५ ॥

स्वेनेति । आत्मीयद्रव्यपरिक्षयेण गमनं निष्फलं लुब्धत्वान्न प्रयच्छ- ति, तथाऽपि व्यसनप्रतीकारार्थं शत्रुप्रघातार्थं महामात्रस्य शूरत्वाद्, महतश्चार्थस्येति । अप्रयुक्तमर्थं साध्यमानं यस्मिन्महत्वान्निबध्य तिष्ठति तं प्रशमयति तस्य शूरस्यापि राजकुले लब्धप्रभावत्वाद्, आयतिजननं- चेति । शूरस्य प्रभाववतो वा सम्पर्को लोके महतीमायतीं जनयति सोऽनर्थ इति । यः कृतो व्ययो निष्फलः, अर्थानुबन्धः, व्यसनप्रतीका- रादिनाऽर्थेनानुबद्धत्वादयं विरुद्धानुबन्धः ॥ १५ ॥

कदर्यस्य सुभगमानिनः कृतघ्नस्य वाऽतिसन्धानशीलस्य स्वै- रपि व्ययैस्तथाऽऽराधनमन्ते निष्फलं सोऽनर्थो निरनुबन्धः ॥१६॥

कदर्यस्येति । आत्मानं भृत्यांश्च पीडयित्वा योऽर्थान्सञ्चिनोति तस्य, सुभगमानिन इति । असुभगः सन्नात्मानं सुभगं यो मन्यते स न प्रयच्छति, यस्तु दुर्भगः सुभगमानी स केवलार्थो गम्य उक्तः, कृत- घ्नस्य वेति । अकृतज्ञस्य, वाशब्दः पूर्वापेक्षया सर्वत्र योज्यः, अतिस- न्धानशीलस्य छलनपरस्य, तथाऽऽराधनमिति । यथा स्वैरपि व्ययरभि-