भारतकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 325, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 325

३१८ सटीक कामसूत्रे [ ६ अधिकरणे,

तेष्वाचर्यमाणेष्वन्यस्यापि निष्पत्तिरनुबन्धः ॥ ६ ॥

तेष्विति । अर्थादिषु षट्सु साध्यमानेषु, अन्यस्यापीति । न केवलं साध्यमानस्याप्यन्यस्यापि सजातीयस्य विजातीयस्य वा पञ्चानामन्यतमस्योत्पत्तिरनुबन्ध इति ॥ ६ ॥

संदिग्धायां तु फलप्राप्तौ स्याद्वा न वेति शुद्धसंशयः ॥ ७ ॥

अभिगमने क्रियमाणेऽर्थादिफलस्य संप्राप्तौ संदिग्धायां स्याद्वा न वेति यो विकल्पः स शुद्धसंशयः एकस्यैव भावाभावाभ्यां संशय्यमानत्वात् ॥ ७ ॥

इदं वा स्यादिदं वेति संकीर्णः ॥ ८ ॥

इदं वा स्यादिदं वेति सङ्कीर्णः संशयः, द्वयोरन्यतरोत्पत्त्या विकल्पस्य संकीर्यमाणत्वात् ॥ ८ ॥

एकस्मिन् कार्ये क्रियमाणे कार्यद्वयस्योत्पत्तिरुभयतो योगः ॥ ९ ॥

एकस्मिन्कार्य इति । अर्थादिसाधने कार्ये क्रियमाणे, द्वयस्येति । अर्थादीनां षण्णामन्यतमस्य सजातीयस्य विजातीयस्य वा द्वयस्योत्पत्तिरुभयतो योग इत्युभाभ्यां द्वयस्योत्पत्तिः ॥ ९ ॥

समन्तादुत्पत्तिः समन्ततो योग इति तानुदाहरिष्यामः ॥ १० ॥

समन्तादिति । एकस्मिन् क्रियमाणे कार्ये बहुभ्योऽर्थादीनामुत्पत्तिः, समन्ततो योगः, अस्य योगद्वयस्य निरनुबन्धपक्ष एवान्तर्भावः, तानिति । निरनुबन्धादीनुदाहरणानुदाहारष्यामः, स्पष्टोऽर्थः ॥ १० ॥

ननु च त्रिवर्गोऽर्थोऽनर्थश्च तयोः स्वरूपतोऽपरिज्ञाने कथमुदाहरणमित्याह—

विचारितरूपोऽर्थत्रिवर्गः, तद्विपरीत एवानर्थत्रिवर्गः ॥ ११ ॥

विचारितरूप इति । त्रिवर्गप्रतिपक्षो निरूपितस्वभाव इत्यर्थः, तद्विरुद्धत्वादनर्थोऽपि विचारितरूप इत्याह—तद्विपरीत इति ॥ ११ ॥

तत्रार्थानर्थयोस्त्रिवर्गयोरर्थानर्थावाद्यावधिकृत्याह—

यस्योत्तमस्याभिगमने प्रत्यक्षतोऽर्थलाभो ग्रहणीयत्वमायतिरागमः प्रार्थनीयत्वं चान्येषाम् स्यात्सोऽर्थोऽर्थानुबन्धः ॥ १२ ॥

यस्येति । उत्तमादिभेदात्त्रिविधो नायको व्याख्यातः, तत्र यः समस्तगुणस्तस्योत्तमगुणस्याभिगमने, प्रत्यक्षतोऽर्थलाभ इति । तत एव प्रत्यक्षात्तदानीमर्थलाभः, ग्रहणीयत्वमिति । लोकग्राह्यत्वमुपादेयत्वम्, आयतिः = प्रभावः, आगमस्तत्कालीयानां प्रार्थनीयत्वमन्येषां गम्यादीनां,