कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 135, कुल 876 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण प्रस्तुत है:
१८ कथासरित्सागर ततोऽध्वनि मनाक्छेषे जाते तीव्रतपः कृशः । क्लान्तः पतितवानस्मि निर्मनो धरणीतले ॥५॥ उत्तिष्ठ पुत्र सर्वं ते सम्पत्स्यत इति स्फुटम् । दर्शितहस्तः पुमानन्यः जाने मामब्रवीत्तदा ॥६॥ तेनाहममृतासारसिक्त इव तत्क्षणम् । प्रबुद्धः क्षुत्पिपासाविहीनो स्वस्थ इवाभवम् ॥७॥ अथ देवस्य निकटं प्राप्य भक्तिभराकुलः । स्नात्वा गर्भगृहं तस्य प्रविष्टोऽभूवमुन्मनाः ॥८॥ कृतान्तं प्रभुणा सूनुं स्कन्देन मम दर्शनम् । दत्तं ततः प्रविष्टा मे मुखं मूर्त्ता सरस्वती ॥९॥ अथासौ भगवात्साक्षात्षडभिराननपङ्कजैः । 'सिद्धो वर्णसमाम्नाय' इति सूत्रमुदैरयत् ॥१०॥ तच्छ्रुत्वैव मनुष्यत्वसुलभाच्चापलाद् यतः । उत्तरं सूत्रमभ्यूह्य स्वयमेव मयोदितम् ॥११॥ अथाब्रवीत्स देवो मां नावदिष्यः स्वयं यदि। अभविष्यदिदं शास्त्रं पाणिनीयोपमर्दकम् ॥१२॥ अधुना स्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति । मद्वाहनकलापस्य नाम्ना कालापकं तथा ॥१३॥ इत्युक्त्वा शब्दशास्त्रं तत्प्रकाश्यैवाभिनवं भुवि । साक्षादेव स मां देवः पुनरेवमभाषत ॥१४॥ युष्मदीयः स राजापि पूर्वजन्मन्यभून्नृपः । भरद्वाजमुनेः शिष्यः कृष्णसंज्ञो महातपाः ॥१५॥ सुत्याभिलाषामालोक्य स चैकां मुनिकन्यकाम् । ययावकस्मात्पुष्पेषुशरघातवशंगताम् ॥१६॥ अतः स शप्तो मुनिभिरवतीर्ण इहाधुना । सा चावतीर्णा देवीत्वे तस्यैव मुनिकन्यका ॥१७॥ इत्थमुभयावताराऽयं नृपतिः सातवाहनः । दृष्टे त्वय्यस्मिंश्चा विद्या प्राप्स्यत्येव स्वदिच्छया ॥१८॥ अक्लिष्टलभ्या हि भवन्त्युत्तमार्था महात्मनाम् । जन्मान्तरार्जिताः स्फारसंस्काराक्षिप्तसिद्धयः ॥१९