BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 165 of 876

Read in context
Page 165

१२६ कथासरित्सागर विज्ञातद्यापवृत्तान्तो बोधितश्च स मन्त्रिभिः। कथञ्चिज्जीवितं दध्रे पुन' सङ्गमवाञ्छया ॥५४॥ तां च राज्ञीं स पक्षीन्द्रः क्षणात्रीत्वा मृगावतीम्। जीवन्तीं वीक्ष्य तत्याज देवादुदयपर्वते ॥५५॥ त्यक्त्वा तस्मिन्गते चाथ राज्ञी शोकमयाकुला। ददर्शनात्मानमात्मानं दुर्गेमाद्रितटस्थितम् ॥५६॥ एकाकिनीमकवस्त्रां क्रन्दन्तीमथ तां वने। ग्रासीकर्तुं प्रवृत्तोऽभूदुत्थायाजगरो महान् ॥५७॥ निहत्याजगरं तं च शुमोदकां क्षमव सा। दिव्येन मोहिता पुंसा दृष्टनष्टेन कनचित् ॥५८॥ ततो वनगजस्याग्रे सा स्वयं मरणार्थिनी। आत्मानमक्षिपत्सोऽपि ररक्ष दययेव ताम् ॥५९॥ चित्रं यच्छ्वापदोऽप्येनां पतितामपि गोचरे। नावधीन्मघवा किं हि न भवदीश्वरेच्छया ॥६०॥ अथ प्रपाताभिमुखी बाला गर्भभराल्लसा। स्मरन्ती तं च भर्तारं मुक्तकण्ठं रुरोद सा ॥६१॥ तच्छ्रुत्वा मुनिपुत्रोऽथ तत्रैकस्तां समाययौ। आगतः फलमूलार्थं कृपा मूर्तिमतीमिव ॥६२॥ स च पृष्ट्वा यथानृत्तमाश्वास्य च कृशाम्पन्। जमदग्न्याश्रमं राज्ञीं निनायैनां दयार्द्रधीः ॥६३॥ तत्र मूर्त्तमिवोद्दाम जमदग्निं ददर्श सा। तेजसा स्थिरबालाके कुर्व्वाणमुदयाचलम् ॥६४॥ गोत्रेण तां परिज्ञातां मुनिराधीतवत्सलः। राज्ञीं वियोगदुःखार्त्तां दिव्यदृष्टिरभाषत ॥६५॥ इह ते जनिता पुत्रि ! पुत्रः शतपरः पितुः। भविष्यति च भर्त्ता ते सङ्गमो मा शुचं कृथाः ॥६६॥ इत्युक्त्या मुनिना साध्वी सा जगाद मृगावती। प्रापमेत्यस्थितिं तस्मिन्प्राणां च प्रियसङ्गमे ॥६७॥ उदयनजन्मक्रथा तत्रैषा न्यवसन्नन्दं दयापनीयमनिन्दिता। मन्दकुक्षिगियापारं पुत्ररत्नमसूत सा ॥६८॥