भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 229, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 229

तथेत्यागत्य तत्स्मै स्वप्रभुप्रार्थनावचः। कथितो लोहजङ्घाय घस्रसं स च राक्षसः ॥१२२॥ सोऽप्यङ्गीकृत्य तद्विप्रो लोहजङ्घः प्रशान्तधीः। तेनैव सद्वितीयेन सह लङ्कां ततोऽगमत् ॥१२३॥ तस्यां च दृष्टसौवर्णतत्तत्प्रासादविस्मितः। प्रविश्य राजभवनं रा ददर्श विभीषणम् ॥१२४॥ सोऽपि पप्रच्छ राजा तं कृतातिथ्यः कृताशिषम्। ब्रह्मन्! कथमिमां भूमिमनुप्राप्तो भवानिति ॥१२५॥ ततः स धूर्तोऽवादीत्तं लोहजङ्घो विभीषणम्। विप्रोऽहं लोहजङ्घाख्यो मथुरायां कृतस्थितिः ॥१२६॥ सोऽहं दारिद्र्यसन्तप्तस्तत्र नारायणायत। निराहारः स्थितोऽकार्षं गत्वा द्वकुलं तपः ॥१२७॥ विभीषणान्तिकं गच्छ मद्‌भक्तः स हि ते धनम्। दास्यतीत्यादिशत् स्वप्ने ततो मां भगवान्हरिः ॥१२८॥ क्वाहं विभीषणः क्वेति मयोक्ते स पुनः प्रभुः। समादिक्षद्ध्रुवाद्यैव तं द्रक्ष्यसि विभीषणम् ॥१२९॥ इत्युक्तः प्रभुना सद्यः प्रबुद्धोऽहमिक्षाम्बुधः। पारेऽञ्चस्थितमारभाममपश्यं तद्विं नापरम् ॥१३०॥ इत्युक्तो लोहजङ्घेन लङ्कामालोक्य दुर्गमाम्। सत्यं दिव्यप्रभावोऽयमिति मेने विभीषणः ॥१३१॥ तिष्ठ दास्यामि ते वित्तमित्युक्त्वा ब्राह्मणं च तम्। मत्वा च रक्षसां हस्ते तमप्रच्छ्य नृघातिनाम् ॥१३२॥ तमस्यारत्नर्भमुत्साख्याद् गिरेः सम्प्रेष्य राक्षसान्। मानाययत्पक्षिपोतं गरुडान्वयसम्भवम् ॥१३३॥ स चास्मै लोहजङ्घाय मथुरायां गमिष्यते। तत्कालमेव प्रददौ वशीकाराय वाहनम् ॥१३४॥ लोहजङ्घोऽपि लङ्कायां वाह्यप्रशिष्टहस्तम्। कञ्चित्काल विशश्राम स विभीषणसत्कृतः ॥१३५॥ एकदा तं च पप्रच्छ राक्षसेन्द्रं सकौतुकः। लङ्कायां काष्ठमप्येषा कथं सर्वैव भूरिति ॥१३६॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 229, कुल 876 में से · BharatKosha