कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 279 of 876
Read in contextलावानको नाम तृतीयो लम्बकः इव गुणगिरीन्द्रजाप्रणयमन्दरान्दोलना- त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम्। प्रसङ्ग रसयन्ति यं विगतविघ्नलब्धर्द्धयो धुरं दधति बन्धुरीं भुवि भवप्रसादेन त ॥ प्रथमस्तरङ्गः राज्ञ उदयमस्य कथा (पूर्वानुवृत्त) निर्विघ्नविश्वनिर्माणसिद्धये यदनुग्रहम्। मय स वव्रे धातापि तस्मै विघ्नजिते नमः॥१॥ आश्लिष्यमाणः प्रियया शत्रूरोऽपि यदाज्ञया। उत्क्रमते स भुवनं जयत्यसमसायकः॥२॥ एव स राजा वत्सशः क्रमेण सुतरामभूत्। प्राप्तवासवदत्तत्सुखासक्तैकमानसः ॥३॥ यौगन्धरायणश्चास्य महामन्त्री दिवानिशम्। सेनापती रुमण्वंश्च राज्यभारमुदूहतुः ॥४॥ स कदाचिच्च चिन्तावानानीय रजनौ गृहम्। निजगाद रुमण्वन्तं मन्त्री यौगन्धरायणः ॥५॥ पाण्डवान्वयजातोऽयं वत्सराजोऽस्य च मेदिनी। कुलक्रमागतं कृत्स्ना पुरं च गजसाह्वयम् ॥६॥ तत्सर्वमजिगीषेण त्यक्तमेतेन भूभृता। इहैव चास्य सञ्जातं राज्यमल्पे मण्डलम्॥७॥ स्त्रीपद्यमृगयासक्तो निश्चिन्तोऽद्यैव तिष्ठति। अस्मासु राज्यचिन्ता च सर्वानैव समर्पिता ॥८॥ तदस्माभिः स्वबुद्धयैव तथा कार्यं यथैव तत्। समग्रपृथिवीराज्यं प्राप्नोत्येष क्रमागतम् ॥९॥ एवं कृते हि भक्तिश्च मन्त्रिता च कृता भवेत्। सर्वं च साध्यते बुद्ध्या तथा चैतां कथां शृणु॥१०॥ १ हस्तिनापुर मित्यर्थः। २ धीर ललित नायक स्वस्यामिदमतिनिश्चिन्तो मुहुदर्शितं कलापरो वीरकलित स्यात्