कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 281 of 876
Read in context२४ कथासरित्सागर महासेनगुल्मचतुरवैद्ययोःकथा आसीत्कश्चिन्महासेन इति नाम्ना पुरा नृपः। स चान्येनाभियुक्तोऽभूद्भूपेनातिबलीयसा ॥११॥ ततः समस्य सचिवैः स्वकार्यभ्रंशरक्षिभिः। दापितः स महासेनो दण्डं तस्मै किल द्विषे ॥१२॥ दत्तदण्डश्च राजाऽसौ मानी भृशमतप्यत। किं मया विहितः क्षत्रो प्रणाम' इति चिन्तयन् ॥१३॥ तेनैव चास्य गुल्मोऽभूत्' शोकेन हृद्यपद्यत। गुल्माक्रान्तश्च शोकेन स मुमूर्षुरभून्नृपः ॥१४॥ ततस्तदौषधासाध्यं मत्वैको मतिमाग्भिषक्। मृता ते देव देवीति मिथ्या वक्ति स्म तं नृपम् ॥१५॥ तच्छ्रुत्वा सहसा भूमौ पततस्तस्य भूपतेः। शोकावेगेन वह्निना स गुल्मः स्वयमस्फुटत् ॥१६॥ रोगोत्तीर्णश्चिरं दब्ध्वा तथैव च सहेप्सितान्। भोगान्त्स बुभुजे राजा जिगाय च रिपून् पुनः ॥१७॥ तद्यथा स भिषग्बुद्ध्या चक्रे राजहितं तथा। वयं राजहितं कुर्मः साधयामोऽस्य मेदिनीम् ॥१८॥ परिपन्थी च तत्रैकः प्रद्योतो मगधेश्वरः। पाष्णिग्राहः स हि सदा पश्चात्कोपं करोति सः ॥१९॥ सतस्य कन्यकारत्नमस्ति पद्मावतीति यत्। समस्य वत्सराजस्य कृते याचामहे वयम् ॥२०॥ छन्नां वासवदत्तां च स्थापयित्वा स्वबुद्धितः। दत्वाग्निं वासकं ब्रूमो देवी दग्धति सर्वतः ॥२१॥ नान्यथा तां सुतां राज्ञे ददाति मगधाधिपः। एतदर्थं स हि मया प्राथितः पूर्वमुक्तवान् ॥२२॥ नाहं वत्सदवरायेतां दास्याम्यात्माधिकां सुताम्। तस्य वासवदत्तायां स्नेहो हि सुमहानिति ॥२३॥ १ गुल्मरोगाेनाम ग्रन्थि विशेषः स च पंचसु स्थानेषु भवति कन्ठे हृदये उदरे नाभीचेति। शोकाद्गुल्मो बलेनेत्युच्यते। यथोक्तं माधव निदाने-दुष्टाश्च पात्तं विषयानि चापि विशेषदत्तं वेगविधिप्रहृष्टः। शोकाभिघातोत्प्रेति मस्रायदश्व विरक्तताचाग्निित गुल्म हेतुरिति। तत्र शोकाभिघातजो गुल्मोऽत्र राज्ञ उदरे संजातः।