BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 287 of 876

Read in context
Page 287

२४६ कथासरित्सागर एवं यथा स हास्यत्वं गतः प्रव्राजकस्तथा । व्याजप्रयोगम्यसिद्धौ वयं गच्छेम जातुचित् ॥५४॥ बहुदोषो हि विरहो राज्ञो वासवदत्तया । एवं रुमण्वतोक्त सन्नाह यौगन्धरायणम् ॥५५॥ नान्यथोद्योगसिद्धिः स्यादनुद्योगे च निश्चितम् । राजनि व्यसनिन्येतत्क्षयेदपि यथास्थितम् ॥५६॥ लब्धापि मन्त्रिताख्यातिरस्माकं चान्यथा भवेत् । स्वामिसम्भावनायाश्च भवेम व्यभिचारिणः ॥५७॥ स्वायत्तसिद्धे¹ राज्ञो हि प्रज्ञोपकरणं मताः । सचिवाः परे भवत्सर्वे कृते वाऽप्यभवत्कृते ॥५८॥ सचिवायत्तसिद्धस्तु तत्प्रभावसाधनम् । त एव चन्निहत्साहाः श्रियो दत्तो जलाञ्जलिः ॥५९॥ अथ देवी पितुश्चण्डमहासनाद् विवक्त्सुसे । स सुपुत्रश्च देवी च वचः कुरुत एव मे ॥६०॥ इत्युक्तवन्तं धीराणां धुर्यं यौगन्धरायणम् । प्रमादशङ्किहृदयो रुमण्वानपुनरब्रवीत् ॥६१॥ अभीष्टस्त्रीवियोगार्त्या सविवेकोऽपि बाध्यते । किं पुनर्वत्सराजोऽयमात्र चैतां कथां शृणु ॥६२॥ पुराभूद्देवसेनाख्यो राजा मतिमतो वरः । श्रावस्तीति पुरी तस्य राजधानी बभूव च ॥६३॥ तस्यां च पुर्यामभवद् वणिगेशो महाधनः । तस्योदपद्यतानन्यसदृशी दुहिता किल ॥६४॥ उन्मादिनीति नाम्ना च मन्यथा सापि पप्रथे । उन्माद्यति गतस्तन्म्या रूपं दृष्ट्वाऽखिलो जनः ॥६५॥ मतयय्मनाबञ्च राने वेषा क्वचिन्न मः । रा हि कुप्येद्गिति पिता तस्या सोऽर्थयत्प्रयद् वणिक ॥६६॥ ततश्च गत्वा राजान दन्तस्तन व्यजिापन् । देवास्ति कन्यारत्न मे गृह्यतामुपयोगि यत् ॥६७॥ १ त्रिविधा हि राजानः— १ स्वायत्तसिद्धिः, २ सचिवायत्तसिद्धि उभयायत्तसिद्धि श्चेति। तत्रायमुद्यमः सचिवायत्तसिद्धिः।

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · Page 287 of 876 · BharatKosha