कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 295 of 876
Read in context२६४ कथासरित्सागर स च राजहितैषी सन् दुःखावहमपि स्वसुः । गोपालकोऽनुमन् तन्वत्सन्त्य हि सतां वचः ॥१११॥ सर्वमेतत्सुविहितं देवी दग्धामवत्य तु । प्राणैस्त्यजन् मयं रक्ष्यो वत्सेश इति चिन्यताम् ॥११२॥ सदुपायान्सामग्रीसम्भवं किल सत्यपि । गुरुममङ्ग हि मन्त्रस्य विनिपातप्रतिक्रिया ॥११३॥ इति भूयोऽपि तत्कालमुक्ते तत्र रूमण्वता । उवाचालोचिताशेषकार्यो यौगन्धरायणः ॥११४॥ नास्त्यत्र चिन्ता यद्राजपुत्री गोपालकस्य सा । कनीयसी स्वसा देवी प्राणेभ्योऽप्यधिका प्रिया ॥११५॥ एतस्य पाल्पमालोक्य शोकं वत्सेश्वरस्तदा । जीवत्येवाभिहेवेति मत्वा धैर्यमवाप्स्यति ॥११६॥ अपि चोत्तमसत्त्वोऽयं शीघ्रं च परिणीयते । पद्मावती ततो देवी दर्श्यत षाचिरादिति ॥११७॥ एवमेतद् विनिश्चित्य ततो यौगन्धरायणः । गोपालको रूमण्वाञ्च ततो मन्त्रमिति व्यधुः ॥११८॥ युक्त्या लावाणकं याम सह वेष्या नृपेण च । पर्यन्तो मगधासन्नवर्ती हि विषयोऽस्ति सः ॥११९॥ सुभगाखेटभूमित्वाद्राज्ञश्चाशास्यभिधानकृत् । तत्रान्तः पुरमादीप्य क्रियते मन्त्रि चिन्तितम् ॥१२०॥ देवी च स्थाप्यते नीत्वा युक्त्या पद्मावतीगृहे । छन्नस्थिताया येनास्याः सैव स्याच्छीलसाक्षिणी ॥१२१॥ एव रात्रौ मिथः कृत्वा मन्त्रं सर्वेऽपरेऽहनि । यौगन्धरायणाद्यास्ते प्राविशन् राजमन्दिरम् ॥१२२॥ तत्रैषमथ विज्ञप्तो वत्सराजो रूमण्वता । देव ! लावाणकेऽस्माकं गतानां वर्ततं शिवम् ॥१२३॥ स चातिरम्यो विषयस्तत्र चाखेटभूमयः । शोभनाः सन्ति हे राजन्प्रमदासाश्च सुग्रहाः ॥१२४॥ बाधते तं च नैकट्यात्सर्वं स मगधेश्वरः । ततत्र रक्षाहतोश्च विनोदाय च गम्यताम् ॥१२५॥