कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 339, कुल 876 में से
संदर्भ में पढ़ें२१८ कथासरित्सागर कन्या सम्बन्धनाम्ना हि साम्ना सम्यक्स भाषितः । विगृह्य च कथं जह्याज्जीवितादधिकां सुताम् ॥ १५६ ॥ सत्यं तस्यानुपाल्यं च त्वया च स न वञ्चितः । मया स्वयं कृतं ह्येतन्न च तस्यासुखावहम् ॥ १५७॥ पारेभ्यश्च मया ज्ञातं यथा विक्रुष्टं न सः । तदर्थमेव चास्माभिः स्थितं च दिवसानमून ॥ १५८॥ एवं वदति निर्व्यूढकार्ये यौगन्धरायणे । मगधेश्वरसम्बन्धी दूतोऽत्र समुपाययौ ॥ १५९॥ तत्क्षणं स प्रविष्टोऽत्र प्रतीहारनिवेदितः । प्रणामान्तरमासीनो वत्सराजं व्यजिज्ञपत् ॥ १६० ॥ देवीपद्मावतीवृत्तसन्देशपरिशोधिना । मगधेशेन निर्दिष्टमिदं देवस्य साम्प्रतम् ॥ १६१॥ बहुना किं मया सर्वं ज्ञातं प्रीतोऽस्मि च त्वयि । तद्यदर्थोऽयमारम्भस्तत्कुरु प्रणता वयम् ॥ १६२॥ एतद्दूतवचः श्रुत्वा वत्सराजोऽभिननन्द सः । यौगन्धरायणीयस्य पुष्य नयतरोगिर ॥ १६३॥ ततः पद्मावतीं राज्ञ्या समानाय्य समं तया । तं दत्तप्राभृतं दूतं स सम्मान्य व्यसर्जयत् ॥ १६४॥ अथ चण्डमहासेनदूतोऽप्यत्र समाययौ । प्रविश्य स यथावच्च राजानं प्रणतोऽब्रवीत् ॥ १६५॥ देव ! चण्डमहासेनभूपतिः कार्यतत्त्ववित् । तव विज्ञात-वृत्तान्तो हृष्टः सन्दिष्टवानिदम् ॥ १६६॥ प्राशस्त्यं भवतस्तावदियत्तैवोयवर्णितम् । यौगन्धरायणो यत्त मन्त्री किमधिकोक्तिभिः ॥ १६७॥ धन्या वासवदत्ता तु त्वद्भक्त्या तत्कृतं तया । येनास्माभिः सतां मध्ये चिरमुन्नमितं शिरः ॥ १६८॥ न च वासवदत्तातो भिन्ना पद्मावती मम । द्वयोरेकं हि हृदयं तच्छीघ्रं कुरुतोद्यमम् ॥ १६९॥