BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 361 of 876

Read in context
Page 361

५२ कथारित्सागर वरं हि दवायतेतबुद्धिस्थानमनायकम्। न तु विप्लुतसर्वार्थं विभिन्नबहुनायकम्॥१३६॥ तदेकं नायकं धीरं कुरुध्वं वचसा मम। स्थिरया यदि कृत्यं वो भूयश्चिकित्सया धिया॥१३७॥ तच्छ्रुत्वा नायकत्वं ते सर्वेऽप्यच्छन्यदात्मनः। तदा विचिन्त्य मूढांस्तान्पुनश्चक्रधरोऽब्रवीत् ॥१३८॥ सङ्कल्पशालिनां तर्हि समयं वो वदाम्यहम्। इतः श्मशानं शूलायां मद्यच्चौरा निषूदिताः॥१३९॥ नासास्तेषां निशि च्छित्त्वा यः सुसत्त्व इहानयेत्। स युष्माकं प्रधानः स्याद् वीरो हि स्वाम्यमर्हति॥१४०॥ इति चक्रधरेणोक्तान् विप्रांस्तानन्तिकस्थितः। कुरुध्वमेतत् को दोष इत्युवाच विदूषकः॥१४१॥ ततस्तमप्यवदन्विप्रा नैतत्कर्त्तुं क्षमा वयम्। यो वा शक्तः स कुरुतां समये च वयं स्थिताः॥१४२॥ ततो विदूषकोऽवादीदहमेतत्करोमि भोः। आनयामि निशि च्छित्त्वा नासास्तेषां श्मशानतः॥१४३॥ ततस्तद्दुष्करं मत्वा तेऽपि मूढास्तमब्रुवन्। एवं कृते त्वमस्माकं स्वामी नियम एष नः॥१४४॥ इत्येवास्थाप्य समयं प्राप्तायां रजनौ च तान्। आमन्त्र्य विप्रान् प्रययौ श्मशानं स विदूषकः॥१४५॥ प्रविवेश च तद्वीरो निजं कर्मेव भीषणम्। चिन्तितोपस्थितानेककपाशैकपरिग्रहम् ॥१४६॥ डाकिनीनादसबुद्गुध्रवायस-वाशिते । उल्कामुखमुखोल्काग्निबिस्फारितचितानले ॥१४७॥ ददर्श तत्र मध्ये च स तान् शूलाधिरोपितान्। पुंश्चालांसिकाच्छेदमियेबोर्धीकृताननान् ॥१४८॥ यावच्च निकटं तेषां प्राप तावत्तयोऽपि ते। यतान्नाधिष्ठितास्तस्मिन्प्रहरन्ति स्म मुष्टिभिः॥१४९॥ निष्कंप्य एव खड्गेन सोऽपि प्रतिजघान तान्। न विक्षितं प्रयत्नो हि धीराणां हृदये भिया॥१५०॥