कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 369, कुल 876 में से
संदर्भ में पढ़ें३२८ कथासरित्सागर शुश्राव च यथावृत्तं स सद्योराजसुतामुखात्। तथैव गत्वा राज्ञे च स समग्रं न्यवेदयत् ॥१९५॥ विद्रूपकस्य सत्त्वज्ञस्तच्छ्रुत्वा स महीपतिः। किमवेत् स्यादिति क्षिप्रं समुद्भ्रान्त इवाभवत् ॥१९६॥ आनाययच्च दुहितुर्मन्दिरात् विद्रूपकम्। वशानुयाग मनसा तस्या स्नेहानुपातिना ॥१९७॥ पप्रच्छ च यथावृत्तं न राजा तमुपागतम्। मा भूरुत्रश्च सोऽप्यस्मै विप्रो वृत्तान्तमब्रवीत् ॥१९८॥ अदर्शयच्च वस्त्रान्ते निबद्धाश्चोरनासिकाः। प्रभाद्सम्भविनस्तांश्च सर्पंपाभूमिमेदिनः ॥१९९॥ ततः सम्भाव्य सत्यं तत्तांश्चानाय्य मठद्विजान्। सशिरश्छत्ररोपेतान् पृष्ट्वा तन्मूलकारणम् ॥२००॥ स्वयं श्मशाने गत्वा च दृष्ट्वा तांश्छिन्ननासिकान्। पुंश्चांस्त च निर्लूनकण्ठं प्रव्राजकाधमम् ॥२०१॥ उत्पन्नप्रत्ययो राजा स तुष्टोय महाशयः। विद्रूपकाय कृतिने सुताप्राणप्रदायिने ॥२०२॥ ददौ तस्मै च तामेव तत्रैव तनयां निजाम्। किमदेयमदाराणामुपकारिषु तुष्यताम् ॥२०३॥ क्षीरवासााम्बुजप्रीत्या भूमं राजसुताकरे। गृहीतपाणिर्येनास्यां लेभे लक्ष्मीं विद्रूपकः ॥२०४॥ ततो राजोपचारेण स तया कान्तया सह। आदित्यसेनभूपस्तेस्तस्थौ श्लाघ्ययशा गृहे ॥२०५॥ अथ यातेषु दिवसेष्वेकदा दैवचोदिता। समुवाच निशायां सा राजपुत्री विद्रूपकम् ॥२०६॥ नाथ स्मरसि यत्तत्र तत्र देवीगृहे निशि। मासान्ते त्वमिहागच्छेरित्युक्तं दिव्यया गिरा ॥२०७॥ तत्र चाद्य गतो मासो भवतस्तच्च विस्मृतम्। इत्युक्तः प्रियया स्मृत्वा स जहर्ष विद्रूपकः ॥२०८॥ साधु स्मृतं त्वया तन्वि ! विस्मृतं तन्मया पुनः। इत्युक्त्वाऽऽलिङ्गनं चास्यै स ददौ पारितोषिकम् ॥२०९॥