कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 371, कुल 876 में से
संदर्भ में पढ़ें११० कथासरित्सागर
सुप्तायां च ततस्तस्यां निभृत्यान्तःपुरान्निशि। आदाय खड्गं स्वस्यं सस्तद्देवीभवनं ययौ ॥२१॥ प्राप्तो विदूषकोऽह्र मौरिति तत्र जपन् बहिः। प्रविशेत्यशृणोद् वाचमन्तः केनाप्युदीरिताम् ॥२११॥ प्रविश्य चान्तरे सोऽथ दिव्यमावासमैक्षत। तदन्तर्दिव्यरूपों च कन्यां दिव्यपरिच्छदाम् ॥२१२॥ स्वप्रभाभिन्नतिमिरं रजनिज्वलिशिखामिव। हरकोपाग्निदग्धस्मरसञ्जीवनौषधिम् ॥२१३॥ किमेतदिति साश्चर्यं स तया दृष्टया स्वयम्। सस्नेहबहुमानेन स्वागतेनाभ्यनन्द्यत ॥२१४॥ उपविष्टं च सञ्जातविश्रम्भं प्रम-दर्शनात्। तत्स्वरूपपरिज्ञानसोत्सुक सा तमब्रवीत् ॥२१५॥ अह विद्याधरी कन्या भद्रा नाम महान्वया। इह कामचरस्वाप्नं त्वामपश्यमहं तदा ॥२१६॥ त्वद्गुणाकृष्टचित्ता च तत्कालमहमेव ताम्। अश्रुत्यवाणीमसृजं पुनरागमनय ते ॥२१७॥ अद्य विद्या प्रयोगाच्च सतोऽद्य प्रेरिता मया। सा से राजसुतेवाऽस्मिन् कार्ये स्मृतिमजीजनत् ॥२१८॥ त्वदर्थं च स्थितास्मीह तत्तुभ्यमिदमर्पितम्। शरीरं सुन्दर ! मया कुरु पाणिग्रहं मम ॥२१९॥ इत्युक्तो भद्रया भव्यो विद्याधर्या विदूषकः। तथेति परिणिन्ये तां गान्धर्वविधिना तदा ॥२२ ॥ अतिष्ठदथ तत्रैव दिव्यं भोगमवाप्य सः। स्वपौरुषफलब्ध्येव प्रियया सङ्गतस्समा ॥२२१॥ अत्रान्तरे प्रबुद्धा सा राजपुत्री निशाक्षये। भर्तारं तमपश्यन्ती विषादं सहसागमत् ॥२२२॥ उत्थाय चान्तिकं मातुः प्रस्खलद्भिः पदैर्ययौ। विह्वला सङ्गमवाष्पातरङ्गितविलोचना ॥२२३॥ स पतिर्मे गतः क्वापि राज्ञीविति च मातरम्। आत्मापराधसम्भ्रान्ता सानुतापा च साब्रवीत् ॥२२४॥