भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 407, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 407

३३३ कथासरित्सागर प्राप्तया सिद्धिरूत्येव शरदा दत्तसंभवः । दर्शयन्त्यातिसुगमं मार्गं स्वल्पाम्बुनिम्नगम् ॥६४॥ पूरयन्बहुनादाभिर्वाहिनीभिर्भुवस्तलम् । कुर्वन्नकाण्ड निर्बन्ध-वर्षा-समय-सम्भ्रमम् ॥६५॥ तदा स सैन्य-निर्घोष प्रतिशब्दकुलीकृताः । परस्परमिवान्वस्युस्तदागमभय दिशः ॥६६॥ ववृधुश्च हेमसन्नाहसम्भूतार्कप्रभा हयाः । तस्य नीराजनप्रीतपावकानुगता इव ॥६७॥ विरेजुर्वारणाश्चास्य सितध्वजचामराः । विगलद्गण्डसिन्दूरशोणदानजला पथि ॥६८॥ शरत्पाण्डुपयोवाहाः सधातुरसनिर्झराः । यात्रामुप्रेषिता भीतेरारभञ्जा इव भूधरैः ॥६९॥ नैवैष राजा सहते परेषां प्रसृतं महः । इतीव तच्छमूरणूरुकंतेजस्तिरोदधे ॥७०॥ पद्मातपत्रं च द्वे देव्यौ मार्गे समभिजग्मतुः । नृपं नयगुणाकृष्टे इव कीर्तिजयश्रियौ ॥७१॥ नमन्ताप पलायध्वमित्यूचु विन्ध्यपामिव । पवनाक्षिप्तविक्षिप्तैस्तस्य सन्नाहजांशुकेः ॥७२॥ एवं ययौ स दिग्भागान् पश्यन् फुल्लसिताम्बुजान् । महीमर्यमयोद्भ्रान्तक्षपोत्क्षिप्तफणानिव ॥७३॥ अत्रान्तरे च ते चारा धृतकापालिकव्रताः । योगन्धरायणादिष्टाः प्रापुर्वाराणसीं पुरीम् ॥७४॥ तेषां च कुहकाभिज्ञो ज्ञानित्वमुपदर्शयन् । सिद्ध्यि गुप्तोऽभवद्गोपास्तच्छिष्यतां ययुः ॥७५॥ आचार्योऽयं त्रिकालज्ञ इति व्याजह्रुश्च तम् । शिष्यास्ते स्थापयामासुर्भिक्षाक्षममितस्ततः ॥७६॥ यदुवाचाग्निदाहादि स ज्ञानी भावि पृच्छताम् । तच्छिष्यास्तत्तथा गुप्तं चक्रुस्तेन स पप्रथे ॥७७॥ रञ्जितं शुभ्रविद्यया च समग्रं नृपलक्षणम् । स्वीचक्रे स ह्यमप्येकं राजपुत्रमुपागतम् ॥७८॥