कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 413 of 876
Read in context१७२ कथासरित्सागर तस्य खड्गरक्ता मून प्रतापानलधूमिका। यच्चक्रे लाट¹नारीणामश्रुकण्रुपा दृशः॥१०४॥ असौ मथितुमम्भोधि मा मामुन्मूलयिष्यति। इतीव सङ्गजाधूतवनोऽवेपत मन्दरः॥१०५॥ सत्य स कोऽपि तेजस्वी भास्वन्नादिविवस्वतः। प्रतीच्यामुदयं प्राप प्रकृष्टमपि यज्जयी॥१०६॥ छत कुबेरतिलकामलकासङ्गसङ्घसिनीम्। कैलासहाससुभगामाशामभिससार सः॥१०७॥ सिन्धुराज वशीकृत्य हरिसीग्यैरनुद्रुत । क्षपयामास च म्लेच्छांराघवो राक्षसानिव॥१०८॥ तुरुष्क²तुरगव्राता क्षुभ्यत्साम्बरिखोमद । तृष्णयन्नन्वटा वेलावनेषु दलशो ययुः॥१०९॥ गृहीतारिकट³ धीमान् पापस्य पुरुवोत्लम । राहोरिव स च्छिच्छेव पारसीकपते शिरः॥११०॥ हूणहानिस्रुतस्तस्य मुक्तरोधतविक्रूमला। कीर्तिद्वितीया गङ्गव विवचार हिमाचलम्॥१११॥ नदन्तीष्वस्य सेनासु भयस्तिमितविद्विष । प्रतीप शुश्रुवे नाद शैलरन्ध्रेषु कन्दरम्॥११२॥ अपच्छत्रेण शिरसा कामरूपेश्वरोऽपि तम्। मन्वन्विच्छायतां भेजे यत्तदा न तदद्भुतम्॥११३॥ तदुत्तरस्थितो नाम सम्राट् विववृतेऽथ सः। अङ्गिमिर्जङ्गम शल करीकृत्यापितैरिव॥११४॥ एव विजित्य वत्सशो वसुधां सपरिच्छदः। पद्मावतीपितु प्राप पुर मगधभूभृतः॥११५॥ मगधेशश्च देवीभ्यां सहितंऽस्मिन्नुपस्थिते। सारसबोडभूमिभ्याम्योस्नावति चन्द्र इव स्मरः॥११६॥ भविज्ञात्तस्थितामादौ पुनश्च व्यक्तिमागताम्। मने वासवदत्तां च सोऽधिकप्रणयास्पदम्॥११७॥ १ लाटविषय परिच्छेदे विवृतः। २ अयमपि परिच्छेदे विवृतः। ३ हरिवत्सराजचेत् सिन्धद्वविशेषणमिदम् वत्सवराजपक्षे गृहीत अरीनां कट येन, हरिपक्षेच-गृहीतं अरिः सुदर्शनं करे येन।