BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 441 of 876

Read in context
Page 441

एतच्च मत्पितुर्देशे वृत्तं सर्वत्र विश्रुतम् ॥१८७॥ बालरात्रेषु धिग्ध्याहमित्यादौ वर्णितं मया। पतिप्रतारणासिद्धिस्तु ततोऽप्यभ्यधिका मम ॥१८८॥ भवता चाद्य दृष्टाहं श्रेयोज्यं त कृताद्यनः। उपहाराम पुरुषं मन्त्रेणाक्रष्टुमुद्यता ॥१८९॥ तदस्मदीयऽत्र नये त्वमपि प्रविशाम्युना। सिद्धियोगजितानां च राज्ञां मूर्ध्नि पदं कुरु ॥१९०॥ तच्छ्रुत्वा क्व महामांसभोजनं डाकिनीनये। क्व च राजत्वमित्युक्त्वा स राजा निनिषेध तत् ॥१९१॥ प्राणत्यागोद्यतायां तु राज्ञ्यां तत्प्रत्यपद्यत। विषयाकृष्यमाणा हि तिष्ठन्ति सुयवे क्वनू ॥१९२॥ तत सा स प्रवेश्यैव मण्डलं पूर्वपूजित । गृहीतसमय सन्तं राजानमिदमब्रवीत् ॥१९३॥ य एष फलभूत्याख्य स्थितो विप्रस्तवान्तिक । स मयात्रोपहारार्थमाक्रष्टुमुपकल्पित ॥१९४॥ आकर्षणं च सामास तत्कश्चित्सूपकृद् वरम्। नयज्ञ स्थाप्यतां यस्त स्वयं हन्ति पचत्यपि ॥१९५॥ न कार्या च घृणा यस्मान्मांसबलिभक्षणात्। समापितेऽश्वने पूर्णा सिद्धि स्यादुत्तमो हि स ॥१९६॥ इत्युक्त प्रियया राजा पापभीतोऽपि तत्पुन । अङ्गीचकार धिग्हो कष्टो स्त्रीष्वनुरोधिताम् ॥१९७॥ आनाम्य सूपकार च शत साहसिकामिधम्। विश्वास्य दीक्षितं कृत्वा दम्पती तौ सहोचतु ॥१९८॥ 'राजा देवीद्वितीयोऽद्य भोक्ष्यत तत्त्वरां कुरु' । आहारस्येति योऽभ्येत्य त्वां ब्रूयात् निपातये ॥१९९॥ तन्मांसेनैव रङ्गं कुर्या प्रातर्नो स्वादु भोजनम्। इति सूपकृतादिष्टस्तथेत्युक्त्वा गृहं ययौ ॥२००॥ प्रातश्च फलभूति तं प्राप्तं राजा जगाद स । गच्छ साहसिक ब्रूहि सूपकारं महानसे ॥२०१॥ 'राजा देवीद्वितीयोऽद्य भोक्ष्यते स्वादुभोजनम् । अतस्त्वरितमाहारमुत्तमं साध्यय'ति ॥२०२॥