भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 467, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 467

४२४ कथासरित्सागर कालेन तस्य मद्भर्त्तुः सोऽग्निवत्ताभिधः पिता। वृद्धो लोकान्तरं यातो भार्यानुगतः स्वया ॥११०॥ तीर्थोद्देशाच्च मद्भर्त्ता मृतगर्भं विमुच्य माम्। गत्वा सरस्वतीपूरे शोकेनान्धो जहौ तनुम् ॥१११॥ वृत्तान्ते कथित चास्मिन्नेत्य तत्सहयायिभिः। स्वजनभ्यो मया लब्धं नानुगन्तुं सगर्भया ॥११२॥ ततो मय्यार्त्तशोकायामकस्मादेत्य दस्युभिः। अस्मन्निवाससकलोऽप्यप्रहारो विलुष्ठितः ॥११३॥ तत्क्षणं तिसृभिः सार्धं ब्राह्मणीभिरहं ततः। भीरुर्भ्रशभयाद्रातस्वल्पवस्त्रा पलायिता ॥११४॥ देशभङ्गाद् विदूरं च गत्वा देशं सान्विता। मासमात्रं स्थिताऽभूवं कृच्छ्रकर्मोपजीविनी ॥११५॥ श्रुत्वा चानाथशरणं लोकाद् वत्सेश्वरं सतः। सब्राह्मणीका शीलैकपाथेयाहमिहागता ॥११६॥ आगत्यच प्रसूतास्मि युगपत्त नयावुभौ। स्थितासु भासु तिसृषु ब्राह्मणीषु सखीष्वपि ॥११७॥ शोको विदेशो दारिद्र्यं द्विगुणः प्रसवोऽप्ययम्। अहो अपावृतं द्वारमापदां मम वेधसा ॥११८॥ तदेतयोगतिर्नास्ति बालपोषर्णनाय मे। इत्यालोच्य परित्यज्य लज्जां योषिद्विभूषणम् ॥११९॥ मया प्रविश्य वत्सेशो राजा सदसि याचितः। न शक्तः सोढुमापन्नवासार्त्यार्तिवर्धनम् ॥१२ ०॥ तदादेशेन च प्राप्तं मया स्वम्वरजान्तिकम्। विपदश्च निवृत्ता मे द्वारात्प्रतिहता इव ॥१२१॥ इत्येष मम वृत्तान्तो नाम्ना पिङ्गलिकाऽस्म्यहम्। माबाल्याग्निक्रियाधूमैर्यन्मे पिङ्गलितं दृशौ ॥१२२॥ स तु क्षान्तिकरो देवि देवरो मे विदेशगः। कुत्र तिष्ठति वेद्योऽसाविति नाद्यापि बुद्ध्यते ॥१२३॥ एवम्भूतस्ववृत्तान्ता कुलीनेत्यवधार्य ताम्। प्रीतैर्ना ब्राह्मणीं देवी सा वित्यर्थैवमब्रवीत् ॥१२४॥