BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 495 of 876

Read in context
Page 495

४५२ कथासरित्सागर सोऽहं स त समुत्पन्नो नाम्ना जीमूतवाहनः । विद्याधरकुलेऽमुष्मिंश्चेष जातिस्मरोऽधुना ॥१६६॥ स चापि शबरेन्द्रस्त्वं जातो मित्रावसुः पुनः । त्र्यक्षप्रसादात्सिद्धानां राज्ञो विश्वावसो सुतः ॥१६७॥ सापि विद्याधरी मित्र मम भार्या मनोवती । तव स्वसा समुत्पन्ना नाम्ना मलयवत्यसौ ॥१६८॥ एव मे पूर्वपत्‍न्येषा भगिनी ते भवानपि । पूर्वमित्रमतो युक्ता परिणेतुमसो मम ॥१६९॥ किं तु पूर्वमितो गत्वा मम पित्रोर्निवेदय । तयो प्रमाणीकृतयो सिद्ध्येदेतत्तदीप्सितम् ॥१७०॥ जीमूतवाहनमलयवतीविवाहः इत्य निशम्य जीमूतवाहनात् प्रीतमानसः । गत्वा मित्रावसुः सर्वं तत्पितृभ्यां शशंस तत् ॥१७१॥ अभिनन्दितवाक्यश्च ताभ्यां दृष्टस्तथैव सः । उपगम्य तयैवाथ स्वपितृभ्यां न्यवेदयत् ॥१७२॥ तयोरीप्सितसम्पत्तिस्तुष्टयोः सत्वरं च सः । युवराजो विवाहाय सम्भारमकरोत् स्वसुः ॥१७३॥ ततो जग्राह विधिवत्तस्या जीमूतवाहनः । पाणिं मलयवत्याः स सिद्धराजपुरस्कृतः ॥१७४॥ बभूव चोत्सवस्तत्र चण्डद्युतिचरेश्वरः । सम्मिश्रितोदकश्चातो वत्सादिविद्याधरोत्करैः ॥१७५॥ कृतोद्वाहस्ततस्तस्थौ तस्मिञ्जीमूतवाहनः । मलयाद्रौ महार्हेण विभवेन वधूसखः ॥१७६॥ एकदा च स्वशूर्येण स मित्रावसुना सह । वनावनानि जलधेरवलोकयितुं ययौ ॥१७७॥ तत्रापश्यच्च पुरुषं युवानं खिन्नमागतम् । निवारयन्तं जननीं हा पुत्रे ति विरविणीम् ॥१७८॥ भटेश्च परिव्यस्तं भटनेवानुयायिना । पृष्ठतः पृच्छत प्राप्त्यक शिलाखण्डम् ॥१७९॥