कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 499 of 876
Read in context४५६ कथासरित्सागर वरप्रभावभीतांश्च मुग्धानाश्वास्यगाद तान् । इदमानीतममृतं मुक्त्वाम्बां मम गृह्यताम् ॥१९४॥ अय निक्षिपाम्येतदहं वो धर्मसंस्तरे । तन्मोच्याम्बा च गच्छामि स्वीकुरुध्वमिदं सुधाम् ॥१९५॥ तथेत्युक्ते च तैर्नागैः स पवित्रं कुशास्तरे । सुधाकलशमाधत्त ते प्रास्य जननीं जहुः ॥१९६॥ दास्यमुक्तां च कृत्वैवं मातरं गरुडे गते । यावद्धावन्ते नागा मिथुश्चास्तत्स्थिलामृतम् ॥१९७॥ तावन्निपत्य सहसा तान् विमोह्य स्वशक्तितः । स सुधाकलशं शक्रो जहार कुशसंस्तरात् ॥१९८॥ विपन्नास्तेऽथ नागास्तं लिलिहुर्धर्मसंस्तरम् । कदाचिदमृतस्योतलेपोऽप्यस्मिन् भवेदिति ॥१९९॥ तेन पाटितजिह्वास्ते वृथा प्रापुर्द्विजिह्वताम् । हास्यादृते किमन्यत्स्यादतिलौल्यवतः फलम् ॥२००॥ अथालब्धामृतरसान्नागान्वैरी हरेर्वरात् । तार्क्ष्यः प्रबभूवे भोक्तुं तान्निपत्य पुनः पुनः ॥२०१॥ तदापाते च पातालं त्रासनिर्जिताखिलम् । प्रभ्रष्टगर्भिणीगर्भमभूत्कंपितपन्नगम् ॥२०२॥ नागानां ह्रासो जीमूतवाहनस्यात्मनोत्सव तं दृष्ट्वा बान्धवहं तत्र वासुकिर्भुजगेश्वरः । कृत्स्नमेवपदं नष्टं नागलोकममन्यत ॥२०३॥ ततो दुर्वारवीर्यस्य सपत्नस्तस्य विचिन्त्य सः । समयं प्रार्थनापूर्वं चकारैवं गरुत्मतः ॥२०४॥ एकैकं प्रतिदिनं नागं ते प्रेषयाम्यहम् । आहारहेतोः पक्षीन्द्र ! पयोधिपुलिनाञ्चले ॥२०५॥ पातालन्तु प्रवेष्टव्यं न त्वया सर्ववारिणा । मामलोभदायात्साभ्यस्सर्वैव हि विनश्यति ॥२०६॥ इति वासुकिना प्रोक्तस्तथेति गरुडोऽन्वहम् । तत्प्रहितमिहैकेकं नागं भोक्तुं प्रचक्रमे ॥२०७॥