भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 53, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 53

२ कथासरित्सागर

अथ मूर्खो दरिद्रश्च विपरीतोऽस्य चानुजः। तेन चास्य नियुक्ताभूत् स्वभार्या गृहपोषणी ॥५५॥ कदाचिदथ सम्प्राप्ता प्रावृट् तस्यां च योषितः। सगुडं पिष्टरचितं गृह्यकूपं जुगुप्सितम् ॥५६॥ कृत्वा मूर्खाय विप्राय ददत्यन्नं कृतं हि ताः। शीतकाल निवाणे च स्नानक्लप्तफलमापहम् ॥५७॥ दत्तं न प्रतिपद्यन्त इत्याचारो हि कुत्सितः। सद्येवरगृहिण्या मे दत्तमस्मै सदक्षिणम् ॥५८॥ तद्गृहीतवायमायातो मया निर्भर्त्सितो भृशम्। मूढभावकृतेनान्तर्मन्युना पर्यतप्यत ॥५९॥ सतु स्वामिकुमारस्य पादमूलं गतोऽभवत्। तपस्तुष्टेन तेनास्य सर्वा विद्या प्रकाशिता ॥६०॥ सकृच्छ्रुतधरं विप्रं प्राप्यतास्त्व प्रकाशय। इत्यादिष्टः स तेनैव सहर्षोऽप्यमिहागतः ॥६१॥ आगत्यैष च वृत्तान्तं सर्व मह्यं न्यवेदयत्। तदा प्रभृत्यविरतं जपन्मध्यास्य तिष्ठति ॥६२॥ अतः श्रुतधरं कञ्चिदन्विष्यनयतं युवाम्। तेन सर्वार्थसिद्धिवों भविष्यति न संशयः ॥६३॥ श्रुत्वैतद्वर्षपत्नीतःसूनं योगत्यहामये। दत्त्वा हेमशतं चास्य निर्गतौ स्वस्ततः पुरात् ॥६४॥ अथावां पृथिवीं भ्रान्तौ न च श्रुतधरः क्वचित्। लभ्यमानो तत श्रान्तौ प्राप्तावद्य गृहं तव ॥६५॥ एकश्रुतधरः प्राप्तो यासोऽयं तनयस्तव। तदनं देहि गच्छावो विद्याद्रविण¹-सिद्धये ॥६६॥ इति व्याडिबचः श्रुत्वा मन्माता सादराऽवदत्। मम सङ्गतमेवैतदस्यच प्रत्ययो मम ॥६७॥ तथाहि पूर्वं जातेऽस्मिन्नेकपुत्रे मम स्फुटा। गगनादवभून्मूर्द्धशरीरा सरस्वती ॥६८॥


१ विद्यारूपं यद् द्रविणं = धनं तस्य लाभायेत्यर्थः।