भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 55, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 55

१२ कथासरित्सागर

एष श्रुतधरो जातो विद्यां वर्षादवाप्स्यति। किञ्च व्याकरणं लोके प्रतिष्ठां प्रापयिष्यति॥६९॥ नाम्ना वररुचिञ्चायं सत्तदस्म हि रोचते। यद्यद्वरं भवत्विच्छ्विदित्युक्त्वा वागुपारमत्॥७०॥ अतएव विवृद्धेऽस्मिन्नार्य्य चिन्तयाम्यहम्। क्व स वर्ष उपाध्यायो भवदिति न्विशानिशम्॥७१॥ अथ युष्मन्मुखाज्ज्ञात्वा परितोषोऽद्य मे परः। तदेनं नयतं भ्रात्रा युवयोरप का क्षतिः॥७२॥ इति मन्मातृवचनं श्रुत्वा तौ हर्षनिर्भरौ। व्याडीन्द्रदत्तौ तां रात्रिमयुष्येतां क्षणोपमाम्॥७३॥ प्रभातोत्सवार्यमम्बामास्तॄण दत्वा निजं धनम्। व्याडिनोपनीतोऽहं मैवाकृत ममाञ्चता॥७४॥ ततो मात्राम्यनुज्ञातः कथम्चिद्‌रुद्धवाष्पया। गामादाय निजोत्साहमित्ताधपत्तदव्ययम्॥७५॥ मन्यमानौ च कौमारं पुष्यितं तदनुग्रहम्। व्याडीन्द्रदत्तौ तरसा नगर्य्या प्रस्थितौ ततः॥७६॥ अथ क्रमेण वर्षस्य वय प्राप्ता गृहं गुरोः। स्कन्दप्रसादामायान्तं मूर्त्तं मां सोऽप्यमन्यत॥७७॥ कृत्वास्मानग्रतोऽन्येद्युरुपविष्टः शुचौ भुवि। वर्षोपाध्याय ओङ्कार²मकरोद्दिव्यया गिरा॥७८॥ तदनन्तरमवास्य वेदाः साङ्गा उपस्थिताः। अध्यापयितुमस्मांश्च प्रवृत्तोऽभूदसौ ततः॥७९॥ सकृच्छ्रुतं मया तत्र द्विःश्रुतं व्याडिना तथा। त्रिःश्रुतं चेन्द्रदत्तेन गुरुजोक्तमगृह्यत॥८०॥ ध्वनिमय तमपूर्वं दिव्यमाकर्ण्य सद्यः सपदि विह्रसदन्तर्विस्मया विप्रवर्याः। किमिदमिति समन्ताद्‌वृद्धमभ्येत्य वर्षं स्तुतिमुखरमुखैरीरयंति स्म प्रणामैः॥८१॥


१ स्वामिकार्तिक सम्बन्धि। २ ओङ्कारोच्चारणम्।