कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 581 of 876
Read in context५३४ कथासरित्सागर अथैकां तस्य पृष्ठेऽथ सर्वालङ्कारभूषिताम्। अदृष्टपूर्वां सर्वाङ्गसुन्दरीं स्त्रियमैक्षत ॥१३९॥ कृष्णपक्षपरिक्षीणे गतप्रभे रजनीपतौ। चितारोहाय तद्रश्मिरम्यां रात्रिमिवागताम् ॥१४०॥ का त्वमम्ब कथं चेह कृत्येष्वहमवस्थिता। इति पृष्टा च सा तेन योषिदेवं समब्रवीत् ॥१४१॥ अस्याहं शूलविद्धस्य भार्या विगतलक्षणा। निश्चिताद्या स्थितास्मीह चितारोहे महामुना ॥१४२॥ कञ्चित्कालं प्रतीक्ष्यात्र प्राणानामस्य निष्क्रमम्। तृतीयेऽहनि गतेऽप्यद्य यान्त्यतस्य हि नासवः ॥१४३॥ याचते च मुहुस्तोयमानीतं च मयेह तत्। किं त्वहं नोन्नते शूले प्राप्नोम्यस्य मुखं सखे! ॥१४४॥ इति तस्या वचः श्रुत्वा स प्रवीरोऽप्युवाच ताम्। इव स्वस्य नृपेणाऽपि हस्ते म प्रेषितं जलम् ॥१४५॥ तम पृष्ठे पदं दत्त्वा वार्यतस्योत्तानने। न परस्पर्शमात्रं हि स्त्रीणामापदि दूषणम् ॥१४६॥ एतच्छ्रुत्वा तथैत्यात्तजला दत्त्वा पदद्वयम्। शूलमूलावभग्नस्य पृष्ठे सन्त्यारुरोह सा ॥१४७॥ क्षणाद् भुवि स्वपृष्ठे च रक्तबिन्दुव्यशङ्कितम्। पतत्सु मुखमुन्नम्य स वीरो यावदीक्षते ॥१४८॥ तावत्स्त्रियमपश्यत्सां छित्त्वा छुरिकया मुहुः। खादन्तीं तस्य मांसानि पुनः शूलाग्रवर्तिनः ॥१४९॥ ततस्तां विकृतिं मत्वा क्रोधादाकृष्य सा द्रुतौ। आस्फोटयिष्यन्प्रग्राह पादे रणितनूपुरे ॥१५०॥ सापि तं तरसा पादमाक्षिप्य स्वप्रभावया। क्षिप्रं गगनमुत्पत्य जगाम क्वाप्यदर्शनम् ॥१५१॥ तस्य चादोलदस्तस्य सत्पाशान्मणिनूपुरम्। तस्मादावर्षणभ्रष्टमेकतस्य करान्तरे ॥१५२॥ तत्तन्मां चेदमामादाश्चर्यकर्त्री च मन्यते। धन्ते विताम्फोरां च दुर्जनस्य सङ्गतिम् ॥१५३॥