कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 583 of 876
Read in context५३६ कथासरित्सागर नष्टां विचिन्तयन्पश्यन्हस्ते दिव्यं च नूपुरम्। सविस्मयः साभितापः सहर्षश्च बभूव सः॥१५४॥ ततः श्मशानतस्तस्मात्स जगामात्तनूपुरः। निजगेहं प्रभाते च स्नातो राजकुलं ययौ॥१५५॥ किं तस्य शूलविद्धस्य वृत्तं वार्तेति पृच्छते। राज्ञे स च समेत्योक्त्वा तं नूपुरमुपानयत्॥१५६॥ एतत्कुत इति स्वैरं पृष्टस्तेन स भूभृता। तस्मै स्वरात्रिवृत्तान्तं शशंसामृतमीषजम्॥१५७॥ सतश्चानन्यसामान्यं सत्त्वं तस्यावधाय सः। तुष्टोऽप्यन्यगुणोत्कर्षात्सुतोष सुतरां नृपः॥१५८॥ गृहीत्वा नूपुरं स च गत्वा देव्यै ददौ स्वयम्। दृष्टस्तत्प्राप्तिवृत्तान्तं तस्यै च समवर्णयत्॥१५९॥ सा तद्बुद्ध्वा च दृष्ट्वा च तं दिव्यं मणिनूपुरम्। अशोकदत्तलाभैकतत्परा मुमुदे रहः॥१६०॥ ततो जगाद तां राजा देवी जात्यैव विद्यया। सत्त्वेन च रूपेण महतामप्ययं महान्॥१६१॥ अशोकदत्तो भव्याया भर्ता च दुहितुर्यदि। भवेन्मदनलेखायास्तद्भद्रमिति मे मतिः॥१६२॥ वरस्यामी गुणाः प्रेक्ष्या न लक्ष्मीः क्षणभङ्गिनी। तदेतस्मै प्रवीराय वदाम्येतां सुतामहम्॥१६३॥ इति भर्तुर्वचः श्रुत्वा देवी सा सादराऽब्रवीत्। युक्तमेतदसौ ह्यस्या युवा भर्तानुरूपतः॥१६४॥ सा च तेन मधुस्नानदृष्टेन हृतमानसा। शून्याशया दिनेष्वेषु न शृणोति न पश्यति॥१६५॥ रात्रौ सौधे च तद्बुद्ध्वा मञ्चिस्ताहं निशाक्षये। सुप्ता जागे स्त्रिया स्वप्ने कयाप्युक्तारिम दिव्यया॥१६६॥ वत्से मदनलेखेयं देयान्यस्मै न कस्यचित्। एषा ह्यशोकदत्तस्य भार्या जन्मान्तरार्जिता॥१६७॥ तच्च श्रुत्वा प्रबुध्यैव गत्वा प्रत्यूष एव च। स्वयं तत्प्रत्ययाद् वत्सां समादवामितस्त्यहम्॥१६८॥