भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 589, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 589

५४२ कथासरित्सागर ततो निजपुरं सम्मे प्रभुणा तेन तुष्यता। प्रदत्तं तेन च सुखं स्थितास्मि ससुताधुना ॥१९८॥ सा च मदुहितेदानीमारूढा नवयौवनम्। तत्रवीरप्राप्तिचिन्ता च मम मानसम् ॥१९९॥ अतस्त्वया समं राज्ञा यान्तं त्वाममुना पथा। दृष्ट्वा मक्तं चतुर्दश्यामिक्षस्वाहमचिन्तयम् ॥२००॥ अयं भव्यो युवा वीरो योग्यो म दुहितुः पतिः। तदेतत्प्राप्तये कश्चिदुपायः किं न कल्प्यते ॥२०१॥ इति सङ्कल्प्य याचित्वा शूलविद्धवरोमिषात्। जलं मह्यं श्मशानं त्वमानीतोऽभूमैंया मृषा ॥२०२॥ मायादर्शितरूपादिप्रपञ्चालीकवादिनी। विप्रलब्धवती चास्मि तत्र त्वां क्षणमात्रकम् ॥२०३॥ आकर्षणाय भूपस्ते युक्त्या चक्रे स्वनूपुरम्। संत्यज्य शृङ्खलापाशमिव याता ततोऽप्यहम् ॥२०४॥ अद्य यत्न मया प्राप्तो भवांस्तद्गृहमेरथ न। भजस्व मे सुतां किं च गृहाणापरनूपुरम् ॥२०५॥ इत्युक्तः स निशाचर्या तथेत्युक्त्वा तया सह। वीरो गगनमार्गेण तरित्वा तत्पुरं ययौ ॥२०६॥ सौवर्णं तदपश्यच्च शृङ्गे हिमवतः पुरम्। प्रभोष्यन्नदविभास्तमर्कबिम्बमिवापरम् ॥२०७॥ रक्षोधिपसुतां तत्र नाम्ना विद्युत्प्रभां स ताम्। स्वसाहसमहासिद्धिमिव मूर्त्तमवाप्तवान् ॥२०८॥ तया च सह तत्रैव कञ्चित्कालमुवास सः। अशोकतः प्रियया बद्धूविभवनिर्वृतः ॥२०९॥ ततो जगाद तां बन्धूं मह्यं तद्देहि नूपुरम्। यतः सम्प्रति गन्तव्या पुरी वाराणसः मया ॥२१०॥ तत्र ह्येतत्प्रविज्ञातं स्वयं नरपतेः पुरः। एकरत्ननूपुरस्पर्द्धिद्वितीयमयनं मया ॥२११॥ इत्युक्ता तेन सा स्वच्यूद्वितीयं च स्वनूपुरम्। तस्मै दत्त्वा पुनश्चक्रं सुवर्णकमलं ददौ ॥२१२॥