कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 627 of 876
Read in context५७६ कथासरित्सागर
तत्र बद्धः स्थितो रात्रौ शशयानः स्वजीवित। स शक्तिदेवो देवीं तां चण्डीमेवं व्यजिज्ञपत् ॥१४५॥ 'बालार्कबिम्बनिभया भगवति मूर्त्या त्वया परित्रातम्। निर्भरपीतप्रविसृतरुग्दानवकण्ठरुधिरयेव जगत् ॥१४६॥ सं मां सततप्रणतं निष्कारणविधुरवर्गहस्तगतम्। रक्षस्व सुदूरागतमिष्टजनप्राप्तितृष्णया वरदे ! ॥१४७॥ इति देवीं स विज्ञप्य प्राप्य निद्रां कथञ्चन। अपश्यद्योषितं स्वप्ने तद्गर्भगृहनिर्गताम् ॥१४८॥ सा दिव्याकृतिरभ्येत्य सद्येव जगाद तम्। भो शक्तिदेव ! मा भैषीर्न तेऽनिष्टं भविष्यति ॥१४९॥ अस्येषां दासपुत्राणां नाम्ना विन्दुमती । स्वसा। सा प्रातर्वीक्ष्य कन्या त्वां भर्तृत्वेऽभ्यर्थयिष्यति ॥१५०॥ तच्च त्वं प्रतिपद्येथाः सैव त्वां मोचयिष्यति। न चा सा धीवरी सा हि दिव्या स्त्री शापतःच्युता ॥१५१॥ एतच्छ्रुत्वा प्रबुद्धस्य तस्य नेत्रामृतच्छटा। प्रभाते दाशकन्या सा तद्देवीगृहमाययौ ॥१५२॥ जगादे चैनमभ्येत्य निर्वेदात्साममुत्सुका। इतोऽहं मोचयामि त्वां तत्कुरुष्वेप्सितं मम ॥१५३॥ भ्रातॄणां सम्मता ह्येते प्रत्याख्याता वरा मया। त्वयि दृष्टे तु मे प्रीतिः सञ्जाता तद्द्भजस्व माम् ॥१५४॥ इत्युक्तः स तया बिन्दुमत्या दाशेन्द्रकन्यया। शक्तिदेवः स्मरन् स्वप्नं हृष्टस्तत्तथ्यपद्यत ॥१५५॥ तयैव मोचितस्तां च सुमुखीं परिणीतवान्। स्वप्नलब्धाम्बिकादेवीऋतुभिर्विहितेप्सिताम् ॥१५६॥ तस्थौ च सुखसिद्धयेव तत्र पुष्यकरुम्भया। रूपान्तरोपागतया स तया सह दिव्यया ॥१५७॥ एकदा हर्म्यपृष्ठस्थो धृतगोमांसभारकम्। मार्गगतं स चण्डालं दृष्ट्वा तामब्रवीत् प्रियाम् ॥१५८॥ वन्द्यास्त्रिजगतोऽप्येता याः कृशोदरि धेनवः। तासां पिशितमश्नाति पश्यायं पापकृत्कथम् ॥१५९॥