BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 635 of 876

Read in context
Page 635

५८४ कथासरित्सागर इत्युक्तो व्रतिना तेन प्रतिश्रुत्य १ तथेति तत्। स देवदत्तस्तत्पार्श्वे सदैव स्थितिमग्रहीत् ॥२०४॥ अन्येद्युश्च श्मशानान्ते गत्वा वटतरोरधः। विधाय रजनीं पूजां परमान्नं निवेद्य च॥२ ५॥ बलीन्दिक्षु च विक्षिप्य सम्पादिततदर्चनः। तं पार्श्ववर्तिनं विप्रमुवाच स महाव्रती ॥२ ६॥ एवमेव त्वया कार्यमिह प्रत्यहमर्चनम्। विद्युत्प्रभे गृहाणेमां पूजामित्यभिधायिना ॥२०७॥ अतः परं न जानेऽहं सिद्धिस्त्वैव ध्रुवावयोः। इत्युक्त्वा स ययौ तेन समं स्वनिलयं व्रती ॥२०८॥ सोऽपि नित्यं तरोस्तस्य मूलं गत्वा समर्च तत्। देवदत्तोऽर्चनं चक्रे तथैव विधिना ततः ॥२०९॥ एकदा च सपर्यान्ते द्विधाभूतात्तरोस्ततः। अकस्मात्पश्यतस्तस्य दिव्या नारी विनिर्ययौ ॥२१ ॥ एह्यस्मत्स्वामिनी भद्र ! वक्ति त्वामिति वादिनी। सा तं प्रवेशयामास तस्यैवाभ्यन्तरं तरोः ॥२११॥ स प्रविश्य ददर्शात्र दिव्यां मणिमयं गृहम्। पर्यङ्कवर्त्तिनीमेकां तत्र चान्तर्वरस्त्रियम् ॥२१२॥ रूपिणी सिद्धिरस्माकमियं स्यादिति स क्षणात्। यावद्व्यवस्यति तावत्सा कृतातिथ्या वराङ्गना ॥२१३॥ रणिताभरणैरङ्गैर्विहितस्वागतैरिव । उत्थाय निजपर्यङ्के तमुपावेशयत् स्वयम् ॥२१४॥ जगाद च महाभाग ! सुता यक्षपतेरहम्। कन्या हि रत्नवर्यस्य ख्याता विद्युत्प्रभाख्यया ॥२१५॥ आराधयच्च मामेष बालपादो महाव्रती। यस्यार्थसिद्धिर्देवास्मि त्वं प्राणेष्वपि मे प्रभुः ॥२१६॥ तस्माद् दृष्टानुरागिण्याः कुरु पाणिग्रहं मम। इत्युक्तः स तया चक्रे देवदत्तस्तथेति तत् ॥२१७॥ १ स्वीकृत्येति भावः २ परमान्नं तु पायसम् इत्यमरः।

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · Page 635 of 876 · BharatKosha