कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 639, कुल 876 में से
संदर्भ में पढ़ें५८८ कथासरित्सागर कथं सर्वं त्वया भुक्तमिति भ्रात्रास्य जल्पतः। जिह्वां¹ विद्याधरो भूत्वा जाल्पादः समुद्ययौ ॥२३३॥ व्योमश्यामखनिस्त्रिंशे² हारकेयूरराजिते। तस्मिन्नुत्पतिते सोऽथ देवदत्तो व्यचिन्तयत् ॥२३४॥ कष्टं कीदृगनेनाहं वञ्चितः पापबुद्धिना। यदि वात्यन्तमुग्धता न कस्य परिभूतये ॥२३५॥ तदेतस्यापकारस्य कथमद्य प्रतिक्रियाम्। कुर्यां विद्याधरीभूतमध्येनं प्राप्नुयां कथम् ॥२३६॥ तन्नास्त्युपायो बेतालसाधनादपरोऽत्र मे। इति निश्चित्य स ययौ रात्रौ पितृवनं ततः ॥२३७॥ तत्राहूय तरोर्मूले बेतालं नक्तंचरे। पूजयित्वाऽकरोत्तस्य नृमांसबलिस्तर्पणम् ॥२३८॥ अतृप्यन्तं च बेतालं तमन्यानयनासहम्। तर्पयिष्यन् स्वमांसानि च्छेत्तुमारभते स्म सः ॥२३९॥ तत्क्षणं च स बेतालो महासत्त्वमभाषत। सत्त्वेनानेन तुष्टोऽस्मि तव मा साहसं कृथाः ॥२४०॥ तद् भद्र किमभिप्रेतं तब यत्साधयामि ते। इत्युक्तवन्तं बेतालं स वीरः प्रत्युवाच तम् ॥२४१॥ विश्वस्तवञ्चको यत्र जाल्पादो धर्ती स्थितः। विद्याधरनिवासं तं नय तन्निग्रहाय माम् ॥२४२॥ तथेत्युक्तवता तेन बेतालेन स तत्क्षणात्। स्कन्धेऽधिरोप्य नभसा निन्ये वैद्याधरं पदम्³ ॥२४३॥ तत्रापश्यच्च तं जाल्पादं प्रासादवर्तिनम्। स विद्याधरराजत्वदृप्तं रत्नवासनस्थितम् ॥२४४॥ प्रतारयन्त तामेव सत्यविद्यापरीपदाम्। विद्युत्प्रभामनिच्छन्ती भार्यात्वे तत्प्रवृत्तिभिः ॥२४५॥
१ त्रुटितः। २ आराद्भावत् श्यामन्तः निस्त्रिंशः खड्गोयस्य सः। खड्गस्य श्यामो वर्णः कविसमय-प्रसिद्ध ३ दमप्रान्तम्। ४ श्यामम्।