कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 647 of 876
Read in context५९४ कथासरित्सागर स्वस्वनियोगव्यापृतपरिजनवनिनामिनन्दितागमम् । वासगृहान्तं प्राप्तश्चन्द्रप्रभया तया जगदे ॥२७४॥ या तत्र कनकरेखा राजसुता सुभग ! वर्धमानपुरे । दृष्टा भवता सायं भगिनी मे चन्द्ररेखेति ॥२७५॥ या दाधाधिपपुत्री विन्दुमती प्रथममुत्सङ्गरद्वीपे । परिणीताभूद्भवता शशिरेखा मत्सखी सेयम् ॥२७६॥ या तदनु बिन्दुरेखा राजसुता तत्र दानवानीता । शक्तिदेवस्य विद्याधरीभिः सह विवाहः भार्या च ते तदामूच्छशिखाप्रभा सेयमनुजा मे ॥२७७॥ तदिदानीमेहि वृतिभस्मत्पितुरन्तिकं सहास्माभिः । तेन प्रदत्ताश्चैता द्रुतमखिलाः परिणयस्वास्मान् ॥२७८॥ इति कुसुमशराज्ञासप्रगल्भं च तस्यां त्वरितमुदितवत्यामत्र चन्द्रप्रभायाम् । अपि चतसृभिरामैः साकमेतत्पितुस्त- न्तिकमनुजनन्तं शक्तिदेवो जगाम ॥२७९॥ स च चरणनताभिस्ताभिरभ्यथितोऽसौ दुहितृभिरखिलाभिर्दिव्यवाक्प्रेरितश्च । युगपदथ ददौ ताः शक्तिदेवाय तस्मै मुदितमविरलोपास्तत्र विद्याधरेन्द्रः ॥२८०॥ तदनु कनकपुर्यामृद्धमस्यां स्वराज्यं सपदि स विततार ख्याञ्च विद्याः समस्ताः । अपि च कृतिनमेनं शक्तिवर्म स्वनाम्ना व्यधित समुचितेन स्वेषु विद्याधरेषु ॥२८१॥ धन्यो न जेष्यति भवत्प्रभृतिप्रभावाद् वत्सेश्वरात् पुनरुदेष्यति चक्रवर्ती । युष्मासु योऽत्र नरवाहनदत्तनामा भावी विभुः स तव तस्य मतिं विदध्याः ॥२८२॥ इत्युपिबादन विससर्ज महाप्रभावो विद्याधराधिपतिरारमतपोबनात्तम् । सत्वरय मप्रियतमं निजराजधानीं जामातरं स शशिखण्डपशभिधानः ॥२८३॥