भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 695, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 695

६४ कथासरित्सागर वरण्यायैष घोपेरय नयनात्पलमालिकाम् । क्षिपन्ती तस्य वपुषि प्रणाममकरोन्मुने ॥७९॥ पति समाप्नुहीत्याशीस्तस्मास्तेनाम्यधीयत । सुरासुरखुल्लद्धभ्यं मथाज्ञावद्यात्मना ॥८०॥ ततोऽसामान्यतद्रूपलोभलुण्ठितलज्जया । तयाप्यूचे स विनमद्वक्त्रया मुनिपुङ्गवः ॥८१॥ एषा यदिच्छा भवतो नर्मालापो न चेदयम् । तद्देव दाता नृपतिः पिता मे याच्यतामिति ॥८२॥ यथाम्बयं परिजनान्मुनिस्तस्या निशम्य सः। गत्वा नृपं तत्पितरं सुपर्णं तामयाचत ॥८३॥ सोऽपि तं वीक्ष्य तपसा वपुषा चातिभभिगम् । उवाच रचितातिथ्यो राजा मुनिकुमारकम् ॥८४॥ जाताप्सरसि रम्भायां कन्येषा भगवन्मम । अस्या विवाहाभावे मे तया भावी समागमः ॥८५॥ एव तया व्रजन्त्या द्यां रम्भयैव ममोदितम् । एतत्कथं महाभाग भवेदिति निरूप्यताम् ॥८६॥ सच्छ्रुत्वा मुनिपुत्रोऽसौ क्षणमेवमचिन्तयत् । किं पुरा मेनकोद्भूता सर्पदष्टा प्रमद्वरा ॥८७॥ दत्त्वायुषोऽर्धं मुनिना न भार्या रुरुणा कृता । त्रिशङ्कुः किं न नीतो द्यां विश्वामित्रेण लुब्धयप ॥८८॥ तद्दिवं स्वतपोमागभ्यात् किं न करोम्यहम् । इत्यान्लोच्य न भारोऽयमित्युक्त्वा सोऽब्रवीन्मुनिः ॥८९॥ हे देवतातपोर्द्धेन मदीनेन भूपतिः । सशरीरो दिवं यातु रम्भाम्भोगसिद्धये ॥९०॥ इत्युक्ते तेन मुनिना शृण्वन्त्यां राजसंसदि । एवमस्त्विति भव्यस्था दिव्या वागदमलत् ॥९१॥ तत्र सन्तोषतो हर्म्यं मनये कादयपाय ताम् । वत्साय दत्वा तनयां स राजा दिवमुद्ययौ ॥९२॥ तत्र दिव्यत्वमासाद्य तया शत्रनिपुन्तया । स रेमे रम्भया सार्द्धं भूयो दिव्याशुभावया ॥९३॥