भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 699, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 699

उपवेश्य च पप्रच्छ क्षणादन्वयनामनी। वक्ष्यामि सखि तिष्ठेति तां च सोमप्रभाब्रवीत् ॥१०९॥ ततः कथाक्रमेणैव वाचा सख्यमबध्यत। ताभ्यामुभाभ्यामन्योन्यहस्तग्रहपुरःसरम् ॥११०॥ अथ सोमप्रभावादीत्सखि त्वं राजकन्यका। राजपुत्रैः समं सख्यं कृच्छ्रादप्यतिवाह्यते ॥१११॥ अल्पेनाप्यपराधेन ते हि कुप्यन्त्यमात्रया। राजपुत्रवणिग्पुत्रकथां शृण्वत्र वच्मि ते ॥११२॥

राजपुत्रवैश्यपुत्रयोः कथा

नगर्यां पुष्करावत्यां गूढसेनाभिधो नृपः। आसीत्तस्य च जातोऽभूदेक एव किलात्मजः ॥११३॥ स राजपुत्रो दृप्तः सन्नेकपुत्रतया भृशम्। अशुभं वापि यच्चक्रे पिता तस्यासहिष्ट तत् ॥११४॥ भ्राम्यन्नुपवने जातु दृष्टस्तेनैकपुत्रकः। वणिजो ब्रह्मदत्तस्य स्वतुल्यविभवाकृतिः ॥११५॥ दृष्ट्वा च सद्यः सोऽनेन स्वयंवृतसुहृत्कृतः। तयोश्च चैकरूपौ तौ जाता राजवणिग्सुतौ ॥११६॥ स्यातुं न शेकतुः क्षिप्रं तावन्योन्यमदर्शनम्। आशु बध्नाति हि प्रेम प्राग्जन्मान्तरसंस्तवः ॥११७॥ नोपभुङ्क्ते स्म तं भोगं राजपुत्रः कदाचन। वणिग्पुत्रस्य यस्तस्य नान्नेवोपकरिष्यतः ॥११८॥ एकदा सुहृदस्तस्य निश्चित्योद्वाहमादितः। अहिच्छत्रं विवाहाय स प्रतस्थे नृपात्मजः ॥११९॥ मित्रेण तेन सार्धं च गजारूढः ससैनिकः। गच्छन्विशमतीतीरं प्राप्य सायं समाससत् ॥१२०॥ तत्र चन्द्रोदये पानमासेव्य शयनं स्थितः। अर्थितो निजया धात्र्या कथां वक्तुं प्रचक्रमे ॥१२१॥ उपशान्तकथां जह्रौ धात्रीं मत्तश्च निद्रया। धात्री च तद्वत्सोऽप्यासीत् स्नेहाज्जाग्रद्वणिग्सुतः ॥१२२॥ ततः सुप्तेषु वार्येषु स्त्रीणामिव मिथः कथा। गगने शुश्रुवे तेन वणिग्पुत्रेण जाग्रता ॥१२३॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 699, कुल 876 में से · BharatKosha