कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 733 of 876
Read in context१७८ कथासरित्सागर तथेत्युक्तवतीं तां च कीर्तिसेनां तदैव सः। वसुदत्तपुरं गोपः पुंवेषां नयति स्म ताम्॥१६०॥ तच्च सत्रं यथावस्तु निवेद्यार्ताय तत्क्षणात्। प्रतीहाराय कल्याणलक्षणां तां समर्पयत्॥१६१॥ प्रतीहारोऽपि राजानं विज्ञप्यैव तदाज्ञया। प्रवेशयामास स तां तस्यान्तिकमनिन्दिताम्॥१६२॥ राजा च सोऽत्र रोगातंस्तां दृष्ट्वैवाद्भुताकृतिम्। आश्वस्तो वसुदत्तोऽभूद्वेत्स्यात्मैव हिताहितम्॥१६३॥ उवाच चैतां पुंवेषां यदिमामपनेष्यसि। रुजमेतत्प्रदास्यामि राज्यार्धं ते सुलक्षण॥१६४॥ जाने जहार पृष्ठा मे स्वप्ने स्त्री कृष्णकम्बलम्। तन्निश्चितमिमं रोगं हरिष्यसि ममामयम्॥१६५॥ तच्छ्रुत्वा कीर्तिसेना तं जगादाद्य दिनम् गतः। देव श्वस्तेऽपनेष्यामि रोगं मा स्माधृतिं कृथाः॥१६६॥ इत्युक्त्वा मूर्ध्नि राज्ञोऽस्य गव्यं घृतमवापयत्। तेन तस्याययौ निद्रा ययौ सा चातिवेदना॥१६७॥ भिषग्रूपेण देवोऽयं पुंमर्त्यैः कोऽप्युपागतः। इति सत्रं च तां सर्वे कीर्तिसेनां ततोऽस्तुवन्॥१६८॥ महादेवी च तैस्तैस्तामुपचारैरूपाचरत्। नक्तं वेश्म पृथक्चास्याः सवासीकमकल्पयत्॥१६९॥ अथापरेद्युर्मध्याह्ने मन्त्रिष्वन्तःपुरेषु च। पश्यत्सु तस्य भूपस्य कीर्तिसेना चकार सा॥१७०॥ शिरसः कर्णमार्गेण सार्धं शतपदीशतम्। राज्ञस्मुदितया पूर्वं युक्त्यात्यवभृतया तया॥१७१॥ स्थापयित्वा च घटके सा ताः शतपदीस्ततः। घृतक्षीरादिसेकेन च नृपं समतर्पयत्॥१७२॥ क्रमात्तस्मिन्समाश्वस्ते रोगमुक्ते महीपतौ। घटे तानुप्राजिनो दृष्ट्वा को न तत्र विसिस्मये॥१७३॥