भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 793, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 793

यदि भर्त्रा कृतावज्ञा कदाचित्त्वमिहैष्यसि । ध्वज्जावैरैभिरायान्ती पन्थानं पुत्र वेत्स्यसि ॥११८॥ इत्युक्ता तामिरारोप्य कृतोद्वाहं स्ववाजिनि । स राजा कदलीगर्भां दृढवर्मा ययौ यतः ॥११९॥ प्राप्तान्वागतसैन्योऽथ वपन्त्या सर्वपान्पथि । वध्वा तया सह प्राप राजधानीं निजां च सः ॥१२०॥ तत्रान्यपत्नीविमुखः कदलीगर्भया तया । समं स सस्पहावस्थातद्वृत्तान्तं स्वमन्त्रिषु ॥१२१॥ ततस्तस्य महादेवी तदीयं मन्त्रिणं रहः । स्मारयित्वोपकारान् स्वान् अगादात्मन्दुःखिता ॥१२२॥ राज्ञा नूतनभार्यैकसक्तेनाद्याहमुज्झिता । तत्त्था कुरु येनैषा सपत्नी मे निवर्त्तते ॥१२३॥ तच्छ्रुत्वा सोऽब्रवीन्मन्त्री देवि कर्तुं युज्यते । मादृशानां प्रभोः पत्न्या विनाघोऽप्य वियोजनम् ॥१२४॥ एष प्रव्राजकस्त्रीणां विषयः कुहकादिषु । प्रयोगेष्वभियुक्तानां सङ्कतानां तथाविधे ॥१२५॥ ता हि कैतवतापास्यः प्रविश्यैवानिवारिताः । गृहेषु मायाकुशलाः कर्म किं किं न कुर्वते ॥१२६॥ इत्युक्ता तेन सा देवी विनतवाह तं हिया । अलं तर्हि ममानेन गर्हितेन सतामिति ॥१२७॥ तद्वधो हृदि कृत्वा तु सं विसृज्य च मन्त्रिणम् । काञ्चित्प्रव्राजिकां चेटीमुखेनानयति स्म सा ॥१२८॥ तस्याः शशंस चामूलात्तत्सर्वं स्वमनीषितम् । अङ्गीचकार सासु च सिद्धे कार्ये धनं महत् ॥१२९॥ साप्यर्थलोभादार्त्ता तामित्युवाच कुतापसी । देवि किं नाम वस्तुतद्वहं ते साधयाम्यदः ॥१३०॥ मानाविधान्हि जानामि प्रयोगान् सुवहूनहम् । एवमाश्वास्य तां देवीं साप प्रव्राजिका ययौ ॥१३१॥ मन्त्रिकां प्राप्य च निजां भीतेवेत्थमचिन्तयत् । अहो अतीव भोगाशा क नाम न विडम्बयेत् ॥१३२॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 793, कुल 876 में से · BharatKosha