कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 825, कुल 876 में से
संदर्भ में पढ़ें४६६ कथासरित्सागर तत्रादिश्य प्रतीहारं शिरोऽर्त्तिव्यपदेशतः । वैद्यानानाययत्सर्वान् दत्त्वा पटहघोषणाम् ॥१४८॥ आतुरास्ते कियन्तोऽत्र कस्यादः किं स्वमौषधम् । इत्युपानीय पप्रच्छ तानेकैकं विविक्तगः ॥१४९॥ तत्रेपि तस्म त्त्वेकैकं सर्वमूचुर्महीपते । एकाऽथ वैद्यस्तन्मध्यात् क्रमपृष्टोऽब्रवीदिदम् ॥१५०॥ वणिजो मातुलत्तस्य देव नागबला गया। अस्वस्थस्योपदिष्टाद्य द्वितीय दिनमोषधिः ॥१५१॥ तच्छ्रुत्वा स तमाहूय राजा वणिजमभ्यधात्। ननु नागबला केन तवानीतोच्यतामिति ॥१५२॥ देव कर्मकरेणेति तेनोक्ते वणिजा ततः। क्षिप्रमानाय्य तं राजा स कर्मकरमब्रवीत् ॥१५३॥ त्वया नागबलाहेतोः खनता क्षितितस्तलम् । दीनारजातं यल्लब्धं ब्रह्मस्वं तत्समर्पय ॥१५४॥ इत्युक्तो भूभृता भीतः प्रतिपद्यैव तत्क्षणम् । स तानानीय दीनारांस्तत्र कर्मकरो जहौ ॥१५५॥ राजाऽप्युपोषितायास्मै द्विजायहूय तान् ददौ । दीनारान् हारितप्राप्तान् प्राणानिव बहिश्चरान् ॥१५६॥ एवं स लब्धवान् बुद्ध्या भीत मुक्तात्तातरो । द्विजार्थ भूपतिर्ज्ञान्नोपधिं तां तदुद्भवम् ॥१५७॥ तदेवं सर्वदा बुद्धेः प्राधान्यं जितपौरुषम्। ईदृशेषु च कार्येषु किं विदध्यात् पराक्रमः ॥१५८॥ तद्योगेश्वर कुर्वीथास्त्वमपि प्रज्ञया तथा। यथा कलिङ्गसेनाया दोषो ज्ञायेत कश्चन ॥१५९॥ अस्ति चैतद्यथा तस्यां लम्पन्तीह सुरासुराः । तथा च दिवि कन्यापि निशि द्याभ्यः श्रुतस्त्वया ॥१६०॥ सम्प्रेक्ष्य दोषे कस्याञ्च भवेदङ्कुशता न न । नोपयच्छेत तां राजा न चाधर्म कृतो भवेत् ॥१६१॥ इत्युदारधियः श्रुत्वा सर्वं यौगन्धरायणात् । योगेश्वरस्तं सन्तुष्य जगाद प्रह्वराक्षसः ॥१६२॥