BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 853 of 876

Read in context
Page 853

७९४ कथासरित्सागर एतया स्मृतमात्रा सा मयासुरसुता तदा । भव्यां भर्त्ता महामानी जगाद नलकूबरः ॥१३२॥ कलिङ्गसेना त्वामद्य सोत्सुका स्मरति प्रिये । तद्गच्छ दिव्यमुद्यानं कुरु चैतत्सुताकृते ॥१३३॥ इत्युक्त्वा भावि भूतं च कथयित्वा च तद्गतम् । तत्रैव प्रेषयामास पत्नीं सोमप्रभां पतिः ॥१३४॥ सा चागत्य चिरोत्कण्ठाकृतकण्ठग्रहां सखीम् । कलिङ्गसेनां कुशलं पृष्ट्वा सोमप्रभाब्रवीत् ॥१३५॥ विद्याधरेण तावत्त्वं परिणीता महद्धिना । अवतीर्णा रतिस्ते च सुता शार्वानुग्रहात् ॥१३६॥ कामावतारस्यैषा च वत्सेशात्मसम्भवन् । नरवाहनदत्तस्य पूर्वभार्या विनिर्मिता ॥१३७॥ विद्याधराधिराज्यं स दिव्यं कल्पं करिष्यति । तस्यैषान्यावरोधानां मूर्ध्नि माया भविष्यति ॥१३८॥ त्वं चावतीर्णा भूलोके शक्रशापच्युताप्सराः । निष्पन्नकार्यशेषा च शापमुक्तिमवाप्स्यसि ॥१३९॥ एतन्मे सर्वमाख्यातं भर्त्रा ज्ञानवता सखि । तस्माच्चिन्ता न ते कार्या भावि सर्वं शुभं तव ॥१४०॥ अहं चेह करोम्येषा दिव्यं स्वतनयाकृते । उद्यानं नास्ति पाताले न भूमौ यन्न वा दिवि ॥१४१॥ इत्युक्त्वा दिव्यमुद्यानं सा निर्माय स्वमायया । कलिङ्गसेनामामन्त्र्य सोत्कां सोमप्रभा ययौ ॥१४२॥ ततो निशि प्रभातायामकस्मात्सम्पूर्णं दिवः । भूमाविव च्युतं लोको ददर्शोद्यानमत्र सत् ॥१४३॥ शुश्राव राजा वत्सैशः सभार्यः सचिवैः सह । नरवाहनदत्तश्च सानुगोऽत्र समाययौ ॥१४४॥ ददृशुस्ते तमुद्यानं सदा पुष्पफलद्रुमम् । नानामणिमयस्तम्भभित्तिभूभागवापिकम् ॥१४५॥ सुवर्णवर्णविहगं दिव्यसौरभमारुतम् । देवादेशावतीर्णं वत्स्वर्गास्तरमिव क्षितौ ॥१४६॥