BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 95 of 876

Read in context
Page 95

९० कथासरित्सागर यथाज्ञापयसीत्युक्त्वा शकटालोऽगमद् बहिः। अचिन्तयच्च शक्तिः स्याद्धन्तुं वररुचिं न मे ॥३९॥ दिव्यबुद्धिप्रभावोऽसावुद्धर्त्ता च ममापदः। विप्रदोषं तद्वरं गुप्तं सम्प्रति स्वीकरोमि तम् ॥४०॥ इति निश्चित्य सोऽभ्येत्य राज्ञः कोपमकारणम्। वृत्तान्तं कथयित्वा मे शकटालोऽब्रवीत्ततः ॥४१॥ अथ कञ्चित्प्रवादाय हर्म्यह त्वं च मद्गृहे। प्रच्छन्नस्तिष्ठ मामस्माद्रक्षितुं कोपनान्नृपात् ॥४२॥ इति तद्वचनाच्छन्नस्तद्गृहैकस्थितोऽभवम्। स चान्यं हत्वा कञ्चिन्मद्वधवार्त्तामये निशि ॥४३॥ एवं प्रयुक्तनीतिं च प्रीत्याऽप्रोचमहं तदा। एको मन्त्री भवान्येन हन्तुं मां न कृता मतिः ॥४४॥ नहि हन्तुमहं शक्यो राक्षसो मित्रमस्ति मे। ध्यातमात्रागतो विश्वं ग्रसते स मदिच्छया ॥४५॥ राजा त्विहेन्द्रदत्ताख्यः सखा वध्यो न मे द्विजः। तच्छ्रुत्वा सोऽब्रवीन्मन्त्री रक्षो मे दर्शयतामिति ॥४६॥ ततो ध्यानागतं तस्मै तद्रक्षोऽहमदर्शयम्। तद्दर्शनाच्च वित्रस्तो विस्मितश्च बभूव सः ॥४७॥ रक्षस्यन्तर्हिते तस्मिन् शकटालः स मां पुनः। कथं ते राक्षसो मित्रं सञ्जात इति पृष्टवान् ॥४८॥ ततोऽहमब्रुवं पूर्वं रक्षार्थं नगरं भ्रमन्। रात्रौ रात्रौ मया प्राप्तदेकैकको नगराधिपः ॥४९॥ तच्छ्रुत्वा योगनन्दो मामकरोन्नगराधिपम्। भ्रमंश्चापश्यमत्राहं भ्रमन्तं राक्षसं निशि ॥५०॥ स च मामवदद् ब्रूहि विख्याते नगरेऽत्र का। सुरूपा स्त्रीति तच्छ्रुत्वा विहस्याहं तमब्रुवम् ॥५१॥ या यस्याभिमता मूर्ख¹ सुरूपा तस्य सा भवेत्। तच्छ्रुत्वा स्वयमेवैनं जितोऽस्मीत्यवदत्स माम् ॥५२॥ प्रश्नमोक्षाद् वधोत्तीर्णं मां पुनश्चाब्रवीदसौ। तुष्टोऽस्मीति सुहृन्मे त्वं सन्निधास्ये च ते स्मृतः ॥५३॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · Page 95 of 876 · BharatKosha