कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1002, कुल 1079 में से
संदर्भ में पढ़ेंततः क्षुत्तृष्णया क्लान्तः प्राक्तं सिंहं समस्मरत्। स्मृतागतः स चैतस्य व्यधाद्वृत्तिं मृगामिषैः ॥१०१॥ कञ्चित्कालं स तन्मांसैः प्रकृतिस्थं विधाय तम्। केसरी सोऽब्रवीत् क्षीणः सशापो मे व्रजाम्यहम् ॥१०२॥ इत्युक्त्वा सिंहतां मुक्त्वा भूत्वा विद्याधरश्च सः। जगाम तदनुज्ञातस्तमामन्त्र्य निजं पदम् ॥१०३॥ ततः स बोधिसत्त्वांशो वृत्तिम्लानः पुनः खगम्। सस्मार स्वर्णचूडं तमुपागात् सोऽपि तत्स्मृतः ॥१०४॥ आवेदितार्तिस्तेनाऽसौ गत्वानीय खगः क्षणात्। रत्नाभरणसम्पूर्णां ददौ तस्मै करण्डिकाम् ॥१०५॥ उवाच चैतेनार्थेन वृत्तिः स्याच्छाश्वती तव। मम जातश्च शापान्तः स्वस्ति ते साधयाम्यहम् ॥१०६॥ इत्युक्त्वा सोऽपि भूत्वैव विद्याधरकुमारकः। स्वलोकं नभसा गत्वा प्राप राज्यं निजात् पितुः ॥१०७॥ सोऽपि रत्नानि विक्रेतुं बोधिसत्त्वः परिभ्रमन्। तत्प्राप नगरं यत्र सा स्त्री कूपोद्धृता स्थिता ॥१०८॥ तत्रैकस्याश्च वृद्धाया ब्राह्मण्या विजने गृहे। निधाय तान्याभरणान्यापणं यावदेति सः ॥१०९॥ तावद्ददर्श तामेव वने कूपात् समुद्धृताम्। स्त्रियं सम्मुखमायान्तीं सापि स्त्री पश्यति स्म तम् ॥११०॥ सम्भाषणे श्रुतान्योन्यमथ सा स्त्री कथाक्रमात्। स्वं राजमहिषीपार्श्वस्थितमस्मै न्यवेदयत् ॥१११॥ सोऽपि पृष्टस्ववृत्तान्तस्तया सत्यं शशंस ताम्। रत्नाभरणसम्प्राप्तिं स्वर्णचूडखगाद्बहु ॥११२॥ नीत्वा चाभरणं तस्मै वृद्धावदमन्यदर्शयत्। सापि गत्वा शठा राज्ञ्यै स्वस्वामिन्यै शशंस तत् ॥११३॥ तस्याश्च राज्ञ्या गृहान्तः स्वर्णचूलेन पक्षिणा। नीतं छलेन पश्यन्त्या एवाभरणभाण्डकम् ॥११४॥ तच्च सा स्वपुरप्राप्तं राज्ञी तस्या मुखात् स्त्रियाः। श्रुत्वा विदिततच्छाया राजानं तं न्यजिज्ञपत् ॥११५॥